________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्विंशत्युदयप्राप्तेः। एत एवाष्टौ पञ्चविंशत्यूना विंशत्युदयसहिताः सयोगिकेवलिन्यष्टावेव भवन्ति, तत्र विंशत्येकविंशतिषड्विंशतिसप्तविंशत्युदयाः समुद्घातावस्थायां, अष्टाविंशत्येकोनत्रिंशदुदयौ योगनिरोधावस्थायां, त्रिंशदुदयः सामान्यकेवलिनः स्वभावस्थस्य तीर्थकृतो वा कृतवाग्निरोधस्य, एकत्रिंशदुदयस्तीर्थकरस्य । तथा पञ्चविंशत्यादयः सप्तोदयाः षड्विंशत्यूनाः षड् देशविरते भवन्ति, तत्र | पञ्चविंशतिसप्तविंशत्यष्टाविंशतिनवविंशत्युदया उत्तरवैक्रियं कुर्वतो वेदितव्याः, त्रिंशदुदयः तिर्यअनुष्ययोः पर्याप्तयोः, एकत्रिंशदुदय | उद्योतमनुभवतस्तिरश्च इति । तथा प्रमत्तसंयते पञ्चविंशत्यादयः षड्विंशतिहीनाः पञ्चोदया भवन्ति, तत्र पञ्चविंशतिसप्तविंशत्यष्टा| विंशतिनवविंशत्युदया वैक्रियमाहारकं वा कुर्वतः संयतस्य वेदितव्याः, त्रिंशदुदयस्तु सामान्यसंयतस्य, यस्त्वेकत्रिंशदुदयः स तिरश्चामेव
भवतीत्यत्र न संभवति । तथा एकोनत्रिंशदादयत्रय उदयाः सम्यग्मिथ्यादृष्टौ भवन्ति, तत्रैकोनत्रिंशन्नारकाणां, त्रिंशद्देवमनुष्यतिरश्चां, | एकत्रिंशत्तिरचाम् । तथाप्रमत्ते द्वे उदयस्थाने एकोनविंशत्रिंशच्च, तत्रैकोनत्रिंशद्वैक्रिये आहारके वा व्यवस्थिते ज्ञेया,त्रिंशत्सामान्यमनुष्ये।।
अपूर्वकरणानिवृत्तिबादरसूक्ष्मसम्परायोपशान्तमोहक्षीणमोहेष्वपि त्रिंशदेवोदयस्थानम् । तथाऽयोगिकेवलिन्यष्टकोदयो नवोदयो वा, तत्राष्टकोदयोऽतीर्थकृतः नवोदयस्तीर्थकृतः। ___ अथेन्द्रियेषूदयस्थानानि चिन्त्यन्ते-तत्रैकेन्द्रियाणामुदयस्थानानि पञ्च-एकविंशतिश्चतुर्विंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंश| तिश्चेति । तत्र तैजसकार्मणे अगुरुलघु स्थिरास्थिरे शुभाशुभे वर्णचतुष्कं निर्माणं चेत्येता द्वादश प्रकृतय उदयमाश्रित्य ध्रुवाः, तिर्यग्द्विकं स्थावरमेकेन्द्रियजातिर्बादरसूक्ष्मयोरेकतरं पर्याप्तापर्याप्तयोरेकतरं दुर्भगमनादेयं यश-कीर्त्ययशाकीयोरेकतरा चेत्येतनवक| सहिता एकविंशतिः। अत्र भङ्गाः पञ्च-बादरसूक्ष्माभ्यां प्रत्येकं पर्याप्तापर्याप्ताभ्यामयश कीर्त्या सह चत्वारः, बादरपर्याप्तयश-कीर्तिभिः
For Private and Personal Use Only