________________
Shri Mahavir Jain Aradhana Kendra
कर्मप्रकृतिः
॥१२२॥
Sa
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सह चैक इति । सूक्ष्मापर्याप्ताभ्यां सह यशः कीर्त्तरुदयो न स्यादिति तदाश्रिता विकल्पा न प्राप्यन्ते । एषा चेकविंशतियोंऽग्रे सर्वा अपि स्वपर्याप्तः पूरयिष्यति तस्य योग्यतया लब्धिमाश्रित्य भवान्तरालादावपि पर्याप्तिरस्तीति लब्धिपर्याप्यपेक्षया एकेन्द्रियस्य भवान्तरालगतौ वर्तमानस्यावगन्तव्या, अन्तराले बादरपर्याप्तयशः कीर्त्तीनामप्युदयसंभवात् ततः शरीरस्थस्यौदारिकं हुण्डमुपघातं प्रत्येक| साधारणयोरेकतरमिति चतस्रः प्रकृतयः क्षिप्यन्ते, प्रागुक्तैकविंशतिमध्याच्च तिर्यगानुपूर्व्यपनीयते, ततश्चतुर्विंशतिः स्यात् । इह च भङ्गा दश तद्यथा-वादरपर्याप्तस्य प्रत्येकसाधारणयशः कीर्त्त्ययशः कीर्त्तिपदैर्भङ्गाश्चत्वारः, बादरापर्याप्तस्य प्रत्येकसाधारणाभ्यामयशः कीर्त्तिनिय त्रिताभ्यां सह द्वौ, सूक्ष्मस्य पर्याप्तापर्याप्तप्रत्येक साधारणैरयशः कीर्त्तिनियन्त्रितैः सह चत्वार इति । तथा बादरवायुकायिकस्य वैक्रियं | कुर्वत औदारिकस्थाने वैक्रियं वक्तव्यं, ततश्च तस्यापि चतुर्विंशतिरुदये प्राप्यते, केवलमिह बादरपर्याप्तप्रत्येकायशः कीर्त्तिपदैरेक एव भङ्गः, तेजस्कायिकवायुकायिकयोर्यशः कीर्त्तिसाधारणयोरुदयो न स्यादिति तदाश्रिता भङ्गा न प्राप्यन्ते । सर्वसंख्यया चतुर्विंशतौ भङ्गा एकादश । ततः शरीरपर्याया पर्याप्तस्य पराघाते क्षिप्ते पञ्चविंशतिः, सा च पर्याप्तकस्यैवेत्यपर्याप्त कमपसार्यते, अत्र भङ्गाः पट्, तद्यथा| बादरपर्याप्तस्य प्रत्येकसाधारण यशः कीर्त्त्य यशः कीर्त्तिपदैश्चत्वारः, सूक्ष्मस्य च प्रत्येकसाधारणाभ्यामयशः कीर्त्त्या सह द्वाविति । तथा बादरवायुकायिकस्य वैक्रियं कुर्वतः शरीरपर्याप्त्या पर्याप्तस्य पराघाते क्षिप्ते पञ्चविंशतिः अत्र च प्राग्वदेक एव भङ्गः । सर्वसङ्ख्यया | पञ्चविंशतौ सप्त भङ्गाः । ततः प्राणापानपर्यात्या पर्याप्तस्योङ्वासे क्षिप्ते षड्विंशतिः । अत्रापि भङ्गाः प्रागिव पद् । अथवा शरीरपहिया | पर्याप्तस्योवासेऽनुदिते आतपोद्योतयोरन्यतरस्मिन्नुदिते पविंशतिर्भवति, अत्रापि भङ्गाः पद्, तद्यथा-वादरस्योद्योतेन सहितस्य प्रत्येकसाधारणयशः कीर्त्त्य यशः कीर्त्तिभिश्वत्वारः, आतपसहितस्य प्रत्येकयशः कीर्त्त्ययशः कीर्त्तिपदैश्च द्वाविति । तथा बादरवायुकायिकस्य
For Private and Personal Use Only
नाम्नोबन्धस्थानभङ्गाः
॥१२२॥