________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शेष संस्थान संहनन विहायोगतीनां तीर्थकरनाम्ना सह बन्धायोगात् । एवं चाभिलाप्या- मनुष्यद्विकमौदारिकद्विकं पञ्चेन्द्रियजातिस्तैजसकार्मणे आद्य संहननमाद्य संस्थानं वर्णादिचतुष्टयमगुरुलघु पराघातोपघातोच्छ्वासनामानि प्रशस्तविहायोगतिखस चतुष्कं स्थिरास्थिरयोरेकतरं शुभाशुभयोरेकतरं सुभगं सुखरमादेयं यशः कीर्त्त्ययशः कीच्योरेकतरा तीर्थकरनाम निर्माणमिति । एनां च त्रिंशतं देवा नारका वा सम्यग्दृष्टयो मनुष्यगतिप्रायोग्यं बध्नतो बध्नन्ति । अत्र स्थिरास्थिरशुभाशुभयशः कीर्त्त्ययशः कीर्त्तिभिरष्टौ भङ्गाः । सर्वसंख्यया मनुष्यगतिप्रायोग्यबन्धस्थानेषु भङ्गाः सप्तदशोत्तरपट्चत्वारिंशच्छतानि ४६१७ ।
नरकगतिप्रायोग्यं बनतोऽष्टाविंशतिरेकमेव बन्धस्थानं, सा चेयं-नरकद्विकं पञ्चेन्द्रियजातिवैक्रियद्विकं तैजसकार्मणे हुण्डं वर्णचतुकमगुरुलधूपघातं पराघातमुच्छ्वासं कुखगतिस्रसचतुष्कमस्थिरपट्कं निर्माणं चेति, एतदष्टाविंशतिप्रकृत्यात्मकं बन्धस्थानं मिध्यादृष्टेरवसेयम् । अत्र सर्वासामशुभत्वादेक एव भङ्गः ।
अथ देवगतिप्रायोग्याणि बन्धस्थानान्युच्यन्ते तानि चाष्टाविंशत्ये कोनत्रिंशत्रिंशदेकत्रिंशल्लक्षणानि चत्वारि तत्राष्टाविंशतिरियं - देवगतिर्देवानुपूर्वी पञ्चेन्द्रियजातिर्वैक्रियद्विकं तैजसकार्मणे समचतुरस्रं वर्णचतुष्कं अगुरुलधूपघातपराघातोच्छ्वासनामानि प्रशस्तविहायोगतिस्त्रसचतुष्कं स्थिरास्थिरयो रेकतरं शुभाशुभयेोरेकतरं सुभगत्रिकं यशः कीर्त्ययशः कीत्योरेकतरा निर्माणं चेति । एतच्च बन्धस्थानं मिथ्यादृष्टिसासादनमिश्राविरतसम्यग्दृष्टिदेशसर्वविरतानां देवगतिप्रायोग्यं बध्नतामवसेयम् । अत्र स्थिरास्थिरशुभाशुभयशः कीर्ययशःकीर्त्तिभिरष्टौ भङ्गाः । एषैव जिननामसहितैकोनत्रिंशत्, अत्रापि ते एवाष्टौ भङ्गाः, नवरमेतद्बन्धस्थानं देवगतिप्रायोग्यं बध्नतामविरतसम्यग्दृष्टादीनामवसेयम् । त्रिंशत्पुनरियं देवद्विकं पञ्चेन्द्रियजातिवैक्रियद्विकमाहारकद्विकं तैजसकार्मणे समचतुरस्रं वर्णचतुष्टयमगुरुलधू
For Private and Personal Use Only