________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
D
कर्मप्रकृतिः
॥११९॥
पघातं पराघातमुच्छ्वासं सुखगतिस्त्रसदशकं निर्माणं चेति, एतद्वन्धस्थानं देवगतिपायोग्यं बध्नतोऽप्रमत्तस्यापूर्वकरणस्य चावगन्तव्यम् । अत्र सर्वाण्यपि कर्माणि शुभान्येवेत्येक एव भङ्गः। एषैव त्रिंशजिननामसहिता एकत्रिंशद्भवति, इयमपि त्रिंशदिवेकान्तशुभपदा नानोबन्धद्रष्टव्येत्यत्राप्येक एव भङ्गः। सर्वसंख्यया देवगतिप्रायोग्येषु बन्धस्थानेष्वष्टादश भङ्गाः ।
स्थानभङ्गाः ___एकं तु बन्धस्थानं यशःकीर्तिलक्षणं देवगतिप्रायोग्ये बन्धे व्युच्छिन्नेऽनिवृत्तिवादरसूक्ष्मसम्पराययोरबसेयम् । सर्वसङ्ख्यया बन्ध-12 स्थानेषु भङ्गास्त्रयोदश सहस्राणि नव शतानि पञ्चचत्वारिंशच १३९४५।
अथ नामप्रकृतीनां गुणस्थानेषु बन्धव्यवच्छेद उच्यते-साधारणसूक्ष्मातपस्थावरनरकद्विकैकद्वित्रिचतुरिन्द्रियजातिहुण्डापर्याप्तसेवार्तलक्षणानां त्रयोदशप्रकृतीनां मिथ्यादृष्टिगुणस्थाने बन्धव्यवच्छेदः,मिथ्यादृष्टय एवैतासां बन्धका न सासादनादय इत्यर्थः। एवमेवाग्रेऽपि व्यवच्छेदार्थोऽभ्यूह्यः। अप्रशस्तविहायोगतिदुःस्वरदुर्भगोद्योतानादेयतिर्यद्विकाद्यन्तवर्जसंहननसंस्थानरूपाणां पञ्चदशप्रकृतीनां सासादने बन्धव्यवच्छेदः । औदारिकद्विकमनुष्यद्विकाद्यसंहननलक्षणानां पश्चानां प्रकृतीनामविरतसम्यग्दृष्टिगुणस्थाने बन्धव्यवच्छेदः, मिथ्यादृष्टयादयोऽविरतसम्यग्दृष्टय एवासां बन्धका न देशविरतादय इतियावत् । अस्थिराशुभायशःकीर्तीनां प्रमत्तसंयते बन्धव्यवच्छेदः। सुरद्विकवैक्रियद्विकाहारकद्विकतैजसकार्मणवर्णचतुष्टयागुरुलघूपघातनिर्माणपराघातोच्छ्वासप्रशस्तविहायोगतित्रसनवकसमचतुरस्रपञ्चन्द्रियजातितीर्थकरनामरूपाणां त्रिंशत्प्रकृतीनामपूर्वकरणे बन्धव्यवच्छेदः। तथा प्रमत्तेऽप्रमत्ते चाहारकद्विकस्योदयो भवति, बन्धस्त्वप्रमत्तादारभ्य यावदपूर्वकरणस्तावत् । तीर्थकरनाम्न उदयः सयोगिकेवलिन्ययोगिकेवलिनि च, बन्धस्त्वविरतसम्यग्दृष्टेरारभ्य यावदपूर्वकरण
॥११९॥ मध्यभागस्तावत् । यशःकीर्तेस्तु मिथ्यादृष्टेरारभ्य यावत्सूक्ष्मसंपरायस्तावद्वन्धः । तदेवमुक्तं नाम्नो बन्धवक्तव्यम्।
For Private and Personal Use Only