SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir DSeks एतानि सर्वाण्यपि बन्धस्थानान्यदर एवाग्रे भावयिष्यन्ते । सम्प्रति गुणस्थानानि चिन्त्यते-तत्र मिथ्यादृष्टौ षड् नामबन्धाः-त्रयोविशतिपञ्चविंशतिषविंशत्यष्टाविंशत्येकोनविंशत्रिंशल्लक्षणाः, ते च चतुर्गतिप्रायोग्यवन्धसंभवेन भावनीयाः। सासादनेऽष्टाविंशत्येकोनत्रिंशत्रिंशल्लक्षणानि त्रीणि बन्धस्थानानि, तत्र तिरश्चो मनुष्यस्य वा सासादनस्य देवगतिप्रायोग्य बनतोऽष्टाविंशतिः, देवस्य नारकस्य वा सासादनस्य तियग्मनुष्यप्रायोग्य बध्नत एकोनत्रिंशत् , तिर्यक्झायोग्यं बध्नतस्त्रिंशत् । सम्यग्मिथ्यादृष्टौ द्वे बन्धस्थाने-अष्टाविंशतिरेकोनत्रिंशच्च, तत्र तिरश्वो मनुष्यस्य वा देवगतिप्रायोग्यं बध्नतोऽष्टाविंशतिः, देवस्य नारकस्य वा नृगतिप्रायोग्य बनत एकोनत्रिंशत् । अविरतसम्यग्दृष्टावष्टाविंशत्येकोनविंशत्रिंशल्लक्षणानि त्रीणि बन्धस्थानानि, तत्र तिर्यमनुष्याणां देवगतिप्रायोग्य वध्नतामष्टाविंशतिः, मनुष्याणां देवगतिप्रायोग्य बध्नतामेकोनत्रिंशत्, देवनारकाणां मनुष्यगतिप्रायोग्यं बध्नतामेकोनत्रिंशत्रिंशच । देशविरते प्रमत्ते च द्वे द्वे बन्धस्थाने अष्टाविंशत्येकोनत्रिंशल्लक्षणे । एते च द्वे अपि देवगतिप्रायोग्यं बध्नतो वेदितव्ये । तत्रापि देशविरतस्य तिरश्चोऽष्टाविंशतिरेव, मनुष्यस्य तु द्विविधस्यापि द्वे अपि। अथ प्रमत्तसंयते आहारकद्विकस्य कथं न बन्धः तद्वन्धस्य संयमप्रत्ययत्वात् ,मैत्रं, तत्वन्धस्य विशि संयमप्रत्ययत्वात्तादृशस्य च विशिष्टसंयमस्याप्रमत्तादिगुणस्थान एव भावात् । अप्रमत्तेऽष्टाविंशत्येकोनविंशत्रिंशदेकत्रिंशल्लक्षणानि चत्वारिबन्धस्थानानि । अपूर्वकरणेऽष्टाविंशत्यादीनि पञ्च बन्धस्थानानि, तत्र चत्वारि प्रागुक्तान्येव, पञ्चमं तु यशःकीर्तिरूपैकप्रकृत्यात्मकमिति । नवमदशमयोस्तु गुणस्थानयोर्यशाकीर्त्तरेकस्या एव बन्धः । तदेवं गुणस्थानेषु बन्धस्थानान्युक्तानि । अथैकेन्द्रियादिप्रायोग्याणि यानि त्रयोविंशत्यादीनि स्थानानि प्रागुक्तानि तानि भावयितुमुपक्रम्यते-तत्र तिर्यग्गतिस्तिर्यगानुपूर्वी एकेन्द्रियजातिर्दु-स्वरवर्ज स्थावरदशकं तैजसकार्मणवर्णादिचतुष्टयागुरुलघूपघातनिर्माणाख्या नामध्रुवबन्धिन्य औदारिकशरीरं हुण्डसंस्थानं चेत्येषा त्रयोविंश ka For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy