________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| भावादत्रापि तदाश्रिता भङ्गा न प्राप्यन्ते । तदेवं सर्वसङ्ख्यया पञ्चविंशतिबन्धे विंशतिर्भङ्गाः । सैव पञ्चविंशतिरातपसहिता षड्विंशतिर्भवति । नवरमिहातपस्थाने उद्योतमपि विकल्पेन प्रक्षेप्यं, पर्याप्तकेन्द्रियप्रायोग्यबन्धे उद्योतस्यापि बन्धसंभवात् । अत्र भङ्गाः षोडश, ते चातपोद्योतस्थिरास्थिरशुभाशुभयश-कीर्त्ययश कीर्तिपदैरवसेयाः । आतपोद्योताभ्यां च सह सूक्ष्मसाधारणयोर्बन्धो न भवति,ततस्तदाश्रिता विकल्पा नोपजायन्ते । तदेवमेकेन्द्रियप्रायोग्यबन्धस्थानत्रये सर्वसङ्खथया चत्वारिंशद्भङ्गाः। ___ अथ द्वीन्द्रियप्रायोग्यबन्धस्थानवक्तव्यमुच्यते-तत्र प्रागुक्ता त्रयोविंशतिः स्थावरनामापनयनात्ततश्चावश्यं सूक्ष्मसाधारणयोः स्थाने | बादरप्रत्येकनामप्रक्षेपात्सेवात्तसंहननत्रसनामौदारिकाङ्गोपाङ्गनाम्नां चाधिकानां प्रक्षेपावीन्द्रियस्य प्रायोग्या पञ्चविंशतिर्भवति । साचैव
मभिलाप्या तिर्यग्गतिस्तिर्यगानुपूर्वी द्वीन्द्रियजातिरौदारिकतैजसकार्मणानि हुण्डसंस्थान सेवार्तसंहननमौदारिकाङ्गोपाङ्गं वर्णादिचतुष्टय| मगुरुलघूपधातत्रसबादरापर्याप्तप्रत्येकास्थिराशुभदुर्भगानादेयायश-कीर्तिनिर्माणानि चेति । एषा चापर्याप्तद्वीन्द्रियप्रायोग्यं बध्नतो मिथ्या
दृष्टेरवसेया । अत्र प्रतिपक्षभूता परावर्त्तमाना प्रकृतिरेकापि न बन्धमेतीत्येक एव भङ्गः । एषैव पञ्चविंशतिर्दुःस्वरपराघातोच्छ्वासाशुभविहा| योगतियुक्ता एकोनत्रिंशद् भवति । एषा च पर्याप्तद्वीन्द्रियप्रायोग्यं बध्नतो मिथ्यादृष्टेजेंया । अत एवापर्याप्तकस्थाने पर्याप्तकं प्रक्षिप्यते, पर्याप्तकबन्धे च स्थिर शुभयशःकीयोऽपि बन्धमायान्तीति ता अप्यस्थिराशुभायशःकीर्तिस्थाने विकल्पेन प्रक्षेप्तव्याः। अत्र स्थिरास्थिर-१५ शुभाशुभयशाकीर्त्ययश कीर्तिपदैरष्टौ भङ्गाः । सवैकोनत्रिंशदुद्योतसहिता त्रिंशत् । अत्रापि त एवाष्टौ भङ्गाः । सर्वसङ्खथया सप्तदश ।
एवं त्रीन्द्रियप्रायोग्याणि चतुरिन्द्रियमायोग्याणि च त्रीणि त्रीणि बन्धस्थानानि । तेषु च प्रत्येकं सप्तदश सप्तदश भङ्गा वाच्याः। जबरं Kात्रीन्द्रियाणां त्रीन्द्रियजातिश्चतुरिन्द्रियाणां चतुरिन्द्रियजातिरमिलाया।
SHONDSENGES
For Private and Personal Use Only