SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandie शकीर्तयःपञ्चन्द्रियजाति_दरप्रत्येकनामनी दुःस्वरपराघातोवासपर्याप्तकनामानि त्रसनामाप्रशस्तविहायोगतिवैक्रियदिकमानुपूर्वी चेति ससविंशतिनरकगत्या सह बन्धमायान्ति । हुण्डाद्या पश्चदश मनुजद्विकतिर्यद्विकयोरन्यतद्विकं अन्यतरा जातिर्बादरसूक्ष्मयोरन्यतरत् प्रत्ये| कसाधारणयोश्चान्यतरत् एवं विंशतिरौदारिकशरीरापर्याप्तकनामसहिता द्वाविंशतिरपर्याप्तकबन्धसंज्ञाः,पर्याप्तकनाम्ना सहैतासां मिलितानां | बन्धे उदये वाऽसंभवात् । एता अपर्याप्तकबन्धसंज्ञाः प्रकृतीर्वघ्नन् यदेकेन्द्रियप्रायोग्या बध्नाति तदाऽन्या अपि स्थावरसूक्ष्मसाधारण रूपास्तिस्रः प्रकृतयो बन्धे प्रविशन्तीत्यपर्याप्तकैकेन्द्रियप्रायोग्याः पञ्चविंशतिः, त्रसप्रायोग्याश्च ता बध्नवसनामौदारिकाङ्गोपाङ्गसेवाधसिंहननाख्या अन्या अपि तिस्रः प्रकृतीबध्नातीत्यपर्याप्तकत्रसप्रायोग्या अपि पश्चविंशतिरवसेया । पर्याप्तकनाम्नि बध्यमानेऽपर्याप्त स्थाने पर्याप्ताभिषेकेण स्थिरशुभयश-कीर्युकासोद्योतपराघाताख्यानां षण्णां च प्रकृतीनामधिकानां प्रक्षेपेणैकत्रिंशज्ज्ञातव्या। एषा च पर्याप्तस्थावरैकेन्द्रियप्रायोग्ये पर्याप्तत्रसपायोग्ये च बन्धे प्रत्येकं संभवतो ज्ञातव्या । तथा यदा खरबादरपर्याप्तकेन्द्रियप्रायोग्य बध्नाति | तदा द्वात्रिंशत्तममातपनामापि द्रष्टव्यम् । यदा तु विकलेन्द्रियप्रायोग्य बध्नाति तदाऽप्रशस्तविहायोगतिदुःस्वरनाम्नोरधिकयोर्बन्धात् पर्याप्तविकलेन्द्रियप्रायोग्ये बन्धे त्रयस्त्रिंशत् । पर्याप्ततियपश्चेन्द्रियमनुष्यप्रायोग्यवन्धारम्भे च सुखरसुभगादेयप्रशस्तविहायोगतिसंहननपञ्चकसंस्थानपश्चकलक्षणाचतुर्दश प्रकृतयोऽधिकाः प्रविशन्तीति सप्तचत्वारिंशत् । तदेवं पर्याप्तापर्याप्तस्थावरत्रसप्रायोग्यबन्धेषु यावत्यः प्रकृतयो यथा संभवन्ति तावत्यस्तथा प्ररूपिताः । CARROYOTISTOMAA CREDGEODHD For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy