SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyanmandi Shri Mahavir Jain Aradhana Kendra www.kobafrth.org RODOG रालिकं मिश्रसत्कमन्तर्मुहृत्तं च स्तोकत्वान्न विवक्षितं, ततः क्षपकश्रेणिप्रतिपत्त्यपेक्षयाऽष्टाविंशतिसत्तास्थानस्यावस्थानकालो द्वे षट्पष्टी | सागरोपमाणां, यस्तु मिथ्यात्वं प्रतिपद्यते स पल्योपमासंख्येयभागमात्रेण कालेन सम्यक्त्वं निःशेषमुबलयति, तावच्च तत्सदिति तस्य पल्योपमासंख्येयभागमात्राधिक द्वे षट्पष्टी सागरोपमाणामष्टाविंशतिसत्तास्थानस्यावस्थानकालः । एवं चतुर्विंशतिसत्तास्थानस्यापि 19 भावनीयम् । नवरं योऽपि सागरोपमषट्षष्टिद्वयानन्तरं मिथ्यात्वं प्रतिपद्यते तस्यापि प्रथमसमय एवानन्तानुबन्धिबन्धसंभवाच्चतुर्विंश-13 तिसत्तास्थानमपयातीति परिपूर्ण दे षट्षष्टी सागरोपमाणां चतुर्विंशतिसत्तास्थानस्यावस्थानकालः । जघन्यतस्तु वे अप्यान्तमौं15 हृत्तिके । तथाहि-अष्टाविंशतिसत्कर्मा वेदकसम्यक्त्वोपेतः सप्तक्षपणमारभमाणो यावन्नानन्तानुबन्धिनः क्षपयति तावदष्टाविंशतिरेव सत्तास्थानं, अनन्तानुबन्धिषु क्षपितेषु तु चतुर्विंशतिः, साऽपि तावद्यावन्मिथ्यात्वं न क्षपयति, क्षपिते तु तस्मिंस्त्रयोविंशतिः। तदेवं । चतुर्विशत्यष्टाविंशती जघन्यत आन्तमौहर्तिके । एकविंशतिसत्तास्थानमुत्कर्षतः साधिकत्रयस्त्रिंशत्सागरोपमस्थितिकम् । तथाहि-इह | मनुष्यभवे सप्तकक्षयं कृत्वा सर्वार्थसिद्ध महाविमाने देवो जातः, तत्र च त्रयस्त्रिंशत्सागरोपमाण्यनुभूय पुनरपीह मनुष्यभवे समायातः, ततो यावन्नाद्यापि क्षपक श्रेणिमारभते तावत्तस्यैकविंशतिरेव सत्तास्थानम् । जघन्यतस्त्वेतदप्यान्तमौलिकं, तच्च सप्तकक्षयानन्तरं क्षपकश्रेणिमारोहतो द्रष्टव्यम् । शेषाणां सत्तास्थानानां जघन्यत उत्कर्षतश्चान्तर्मुहूर्तमेव सत्तास्थानं प्राप्यते, तच्च सुप्रतीतमेव । तथाऽनादिमिथ्यादृष्टीनां षड्विंशतिसत्तास्थानमभव्यापेक्षयाऽनाद्यपर्यवसानं, भव्यापेक्षयाऽनादिसपर्यवसानं च द्रष्टव्यम् । तदेवं कृता कालप्ररूपणा, उत्करणाच समाप्तं मोहनीयम् । अथ नामकर्मणो बन्धादिस्थानानि वाच्यानि-तत्र याभिः प्रकृतिभिः सहिता नामकर्मणो बह्वयः प्रकृतयो बन्धमुदयं वा गच्छन्ति GARCarica 26 ODISGARDITSOOT For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy