SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कर्म प्रकृतिः ॥११४॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ता आदौ निर्दिश्यन्ते - अपर्याप्तकजातिपर्याप्तकगतिनामकर्मभिः प्रेरिता इव बह्वचः शेषप्रकृतयो बन्धमुदयं वोपयान्ति । तथाहिअपर्याप्तकनाम्नि बध्यमाने उदयप्राप्ते वा मनुष्यगतिप्रायोग्या स्तिर्यग्गतिप्रायोग्या वा बह्वयो नाम्नः प्रकृतयो बन्धमुदयं वोपयान्ति । जातिनाम्नि चैकेन्द्रियादिजातिरूपे बादरसूक्ष्मादयः, पर्याप्तकनाम्नि च यशःकीर्यादयः, देवादिगतौ च वैक्रियद्विकादय इति । | अत्रोदयस्थितेरियं वक्तव्यता - उदयसमयप्राप्तानामचाधाकालक्षयेणोदयो भवति, स च द्विधा प्रदेशतोऽनुभागतच । तत्रानुदयवतीनां प्रकृतीनां दलिकमबाधाकालक्षये प्रति समयमुदयवतीषु स्तिधुकसंक्रमेण संक्रमय्य यदनुभूयते स प्रदेशोदयः, स चानुपशान्तानामवसेयः, उपशान्तानां तु न भवति । अनुभागोदयश्च विपाकोदयः, स च नित्योदयानां सदा प्रवर्त्तते, शेषाणां तु भजनीयः । यस्तु प्रयो गोदय उदीरणापरनामा स विपाकोदये प्रवर्त्तमान एव प्रवर्त्तते इति न पृथग्विवक्ष्यते । अथ याः प्रकृतयो देवगत्या सह बन्धमुदयं वा | गच्छन्ति ता उच्यन्ते - अशुभास्थिरसमचतुरस्रपराघातोका सत्रसद शकवर्णगन्धरसस्पर्शतैजस कार्मणागुरुलघुनिर्माणोपघातायशः कीर्त्तिपञ्चेन्द्रियजाति वैक्रियद्विकाहारक द्विक शुभविहायोग तिदेवानुपूर्वीलक्षणा द्वात्रिंशत्प्रकृतयो देवगत्या सह बन्धमुदयं वा गच्छन्ति । यदा तु तीर्थकरनामापि बध्यते तदा तत्सहितास्त्रयस्त्रिंशत्प्रकृतयो वेदितव्याः । तथा यदा देवगतौ स्थितः सँस्तीर्थकरनाम बध्नाति तदा तीर्थकरनामसहिता देवद्विकवैक्रियद्विकाहारक द्विकरहिताः शेषा देवगतिप्रायोग्याः अष्टाविंशतिर्वध्यन्ते, मनुजद्विकौदारिकद्विकाद्य संहननलक्ष णाश्च पञ्चति सर्वसंख्यया त्रयस्त्रिंशद्वध्यन्ते । तथा सूक्ष्मेण साधारणेनापर्याप्तेन वा सह न यशःकीर्त्ति बध्नाति, नाप्युदयेनानुभवति, न चाहारकद्विके बध्यमाने उदयप्राप्ते वाऽयशः कीर्त्त्यस्थिराशुभरूपास्तिस्रः प्रकृतयो बन्धमुदयं वाऽऽयान्ति । अथ बन्धमधि| कृत्य नरकगतिसहचराः प्रकृतय उपदर्श्यन्ते - हुण्डं वर्णगन्धरसस्पर्शा अगुरुलघुतैजसकार्मणोपघातनिर्माणान्यस्थिराशुभदुर्भगानादेयाय For Private and Personal Use Only Daka नाम्नःबन्धस्थानानि ॥११४॥
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy