SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्मप्रकृतिः ॥११३|| GACEHOCCA ROMOTOROceak मायायाः प्रथमस्थितिगतमावलिकामानं समयद्वयोनावलिकादिकबद्धं च सदस्ति, अन्यत्समस्त क्षीणं, तदपि च सत् समयद्वयोनावलि कादिकेन कालेन क्षयं यास्यति, यावच्च न याति तावद्वे सती, क्षीणे तस्मिन्नेका, तदेवमेकविधवन्धकस्येमे द्वे त्रीणि चोपशमश्रेण्या मोहस्यश्रितानीति सर्वसंख्यया पञ्च। अबन्धके च सूक्ष्मसम्पराये क्षपके एकं सत्तास्थानमेकप्रकृत्यात्मकं, त्रीणि चोपशमश्रेण्याश्रितानीति चत्वारि। सत्तास्था नानि एतेषामेव सत्तास्थानानामवस्थानकालमानमुच्यते-सप्तविंशतिसत्तास्थानस्याजघन्योत्कर्षमवस्थानकालः पल्योपमासंख्येयभागः। | तथाहि-अष्टाविंशतिसत्कर्मणो मिथ्यादृष्टेः सम्यक्त्वे उद्वलिते सप्तविंशतिः सत्तास्थानमवाप्यते । तदनन्तरं यावन्नाद्यापि सम्यमि-19 | थ्यात्वमुद्वलयितुमारभते तावत्सम्यग्मिथ्यात्वोदयमपि गच्छति । उक्तं च पञ्चसंग्रहमूलटीकायां-"उद्घलनाया अप्रारम्भे तस्य सम्यग्मि थ्यात्वोदयो भवति" इति । ततः सम्यग्मिथ्यादृष्टेरप्यन्तर्मुहतं यावत्सप्तविंशतिसत्तास्थानं प्राप्यते, अन्तर्मुहर्त्तानन्तरं च सोऽप्यवश्यं ४ | मिथ्यात्वं गच्छति । मिथ्यात्वं गतश्च सन् सम्यमिथ्यात्वमुद्रलयितुमारभते, पल्योपमासंख्येयभागमात्रेण च कालेन तन्निःशेषमुद्व | लयति, यावच्च न निःशेषमुद्वलयति तावत्सदित्यजघन्योत्कर्ष सप्तविंशतिसत्तास्थानस्य पल्योपमासंख्येयभागः कालः । सम्यग्मिथ्यात्वे ) |चोदलिते षड्विंशतिः सत्तास्थानं, तस्य चावस्थानमुत्कर्षतो देशोनपुद्गलपरावर्धिकालं, ततः परमवश्यमौपशमिकं सम्यक्त्वं करण-16 त्रयपूर्वमासादयति, ततश्च भूयोऽप्यष्टाविंशतिसत्कर्मा भवति, जघन्यतस्तु पड्विंशतिसत्तास्थानमन्तर्मुहूर्त्तम् । तथाऽष्टाविंशतिचतुर्विंशतिसत्तास्थानयोरवस्थानकालो द्वे षषष्टी सागरोपमाणां,तथाहि-वेदकसम्यक्त्वान्वितस्याष्टाविंशतिसत्कर्मण एका षट्पष्टिं सागरोपमाणां संपूर्य ततोऽन्तर्मुहूर्त सम्यग्मिथ्यात्वे स्थित्वा ततो भूयोऽपि सम्यक्त्वसहितामेकां पक्षष्टिं सागरोपमाणां संपूर्य स्थितस्य तस्य ततः ॥११३॥ | परमवश्यं क्षपकश्रेणेमिथ्यात्वस्य वा प्रतिपत्तिर्भवति, तत्र क्षपकश्रेणिप्रतिपत्तौ मिथ्यात्वादिक्षयादष्टाविंशतिसत्तास्थानमति, आन्त-15 SOCIARIEND For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy