SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 15DHOREODOGDISL तत्र मिथ्यादृष्टिसम्यक्त्वसम्यमिथ्यात्वयोरुद्वलको भवति, स च यावन्नाद्यापि सम्यक्त्वमुद्वलयति तावदष्टाविंशतिः, तस्मिन्नुदलिते सप्तविंशतिः, सम्यग्मिथ्यात्वेऽप्युद्वलिते षड्विंशतिरनादिमिथ्यादृष्टेर्वा । एवं नवोदयेऽपि द्रष्टव्यम् । दशोदयस्त्वनन्तानुबन्धिसहित एव | भवतीति तत्रापि त्रीणि सत्तास्थानानि भाग्नीयानि । सासादने त्वेकविंशतिबन्धे त्रिष्वपि सप्ताष्टनवकरूपेषूदयेष्वष्टाविंशतिरेवैकं | सत्तास्थानम् । तथाहि-सासादनत्वमौपशमिकसम्यक्त्वात्मच्यवमानस्योपजायते, सम्यक्त्वगुणेन च तेन मिथ्यात्वं त्रिधा कृतं-1K सम्यक्त्वं सम्यग्मिथ्यात्वं मिथ्यात्वं चेति । ततो दर्शमत्रिकस्यापि सत्कर्मतया प्राप्तेः सासादने विष्वप्युदयस्थानेष्वष्टाविंशतिरेवैकं 18 सत्तास्थानम् । सप्तदशबन्धो द्वयानां सम्यग्मिथ्यादृष्टीनामविरतसम्यग्दृष्टीनां च । तत्र सम्यग्मिथ्यादृष्टीनां त्रीण्युदयस्थानानि-सप्ताष्टौ नव चेति । अविरतसम्यग्दृष्टीनां चत्वारि, तद्यथा-पट् सप्ताष्टौ नव । तत्र षडुदयोऽविरतानामौपशमिकसम्यग्दृष्टीनां क्षायिकसम्य| रदृष्टीनां वा प्राप्यते। तत्रौपशमिकसम्यग्दृष्टीनां द्वे सत्तास्थाने अष्टाविंशतिश्चतुर्विंशतिश्च । तत्राष्टाविंशतिः प्रथमसम्यक्त्वोत्पादकाले, | उपशमश्रेणिप्रतिपाते तूपशान्तानन्तानुबन्धिनामष्टाविंशतिः, उद्वलितानन्तानुबन्धिनां चतुर्विंशतिः, क्षायिकसम्यग्दृष्टीनां तु सप्तकक्षया देकविंशतिरेव । सप्तोदये मिश्रदृष्टीनां त्रीणि सत्तास्थानानि-अष्टाविंशतिः सप्तविंशतिश्चतुर्विंशतिश्च । तत्राष्टाविंशतिसत्कर्मणः सतो मिश्र. | भावं प्रपन्नस्याष्टाविंशतिः, यस्तु मिथ्यादृष्टिः सम्यक्त्वोद्वलनं कृत्वा मिश्रं नाद्याप्युद्वलयितुं लग्नोऽत्रान्तरे च परिणाममहिम्ना मिथ्या| त्वान्निवृत्य मिश्रभावं प्रपन्नः, तस्य सप्तविंशतिः । यश्च विसंयोजितानन्तानुबन्धिचतुष्कः सम्यग्दृष्टिमिश्रभावं प्रपद्यते तस्य चतुर्वि| शतिः, सा च चतसृषु गतिषु प्राप्यते, चतुर्गतिकानामपि सम्यग्दृशामनन्तानुबन्धिविसंयोजकत्वात्तद्विसंयोजनानन्तरं च केषाश्चित् परिणामवशेन मिश्रभावप्राप्तिसंभवात् , ततश्च चतसृष्वपि गतिषु मिश्रदृष्टीनां चतुर्विंशतिः संभवति । अविरतसम्यग्दृष्टीनां सप्तोदये For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy