________________
Shri Mahavir Jain Aradhana Kendra
_.
-
www.kobatirth.org
Acharya Shri Kailassagársuri Gyanmandir
कर्मप्रकृतिः
मोहस्य. सत्तास्थानानि
॥११२।।
क्षपयति । यदि तु स्त्रीवेदेन क्षपकश्रेणिं प्रतिपन्नस्तदादौ नपुंसकवेदं क्षपयति, ततोऽन्तर्मुहुर्तेन स्त्रीवेदं, स्त्रीवेदक्षयसमकालमेव च पुरुपर्वेदस्य बन्धव्यवच्छेदः, तदनन्तरं पुरुषवेदहास्यादिषद्के युगपत्क्षपयति, यावच्चोभयत्रापि पुरुषवेदहास्यादिषट्के न क्षीयेते तावच्चतुविधवन्धकस्य वेदोदयरहितस्यैकोदये वर्तमानस्यैकादशकं सत्तास्थानं लभ्यते, तयोस्तु क्षीणयोश्चतुष्प्रकृत्यात्मकम्, इत्थं च स्त्रीवेदेन नपुंसकवेदेन वा क्षपकश्रेणिं प्रतिपन्नस्य पञ्चप्रकृत्यात्मकं सत्तास्थानं न प्राप्यते । यस्तु पुरुषवेदेन क्षपकश्रेणिं प्रतिपन्नस्तस्य नोकपायपदकक्षयसमकालं पुरुषवेदस्य बन्धव्यवच्छेद इति तस्य चतुर्विधबन्धकाले एकादशप्रकृत्यात्मकं सत्तास्थानं न प्राप्यते, किं तु पश्चप्रकृत्यात्मकं, द्वे च प्रागुक्ते, त्रीणि चोपशमश्रेण्याश्रितानीति सर्वसंख्यया चतुर्विधवन्धकस्य षट् सत्तास्थानानि । तथा संज्वलनक्रोधस्य प्रथमस्थितावावलिकाशेषायां बन्धोदयोदीरणा युगपद्वयवच्छिद्यन्ते, तासु च व्यवच्छिन्नासु बन्धस्त्रिविधो भवति, तदानी च संज्वलनक्रोधस्य प्रथमस्थितिगतमावलिकामात्रं समयद्वयोनावलिकाद्विकवद्धं च दलिक मुक्त्वाऽन्यत्सर्व क्षीणं, तदपि च सत् समयद्वयोनावलि| काद्विकमात्रेण कालेन क्षयमुपयास्यति, यावच्च न याति तावञ्चतस्रः प्रकृतयस्त्रिविधबन्धे सत्यः, क्षीणे तु तस्मिस्तिस्रः, तदेवं विविध| बन्धकस्यैते द्वे त्रीणि चोपशमश्रेण्याश्रितानीति सर्वसंख्यया पञ्च सत्तास्थानानि । तथा संज्वलनमानस्य प्रथमस्थितावावलिकाशेपायां | बन्धोदयोदीरणानां युगपद्वयवच्छेदे द्विविधो बन्धो भवति, तदानीं च संज्वलनमानस्य प्रथमस्थितिगतमावलिकामानं समयद्वयोनाव: |लिकाद्विकबद्धं च दलिकं मुक्त्वाऽन्यत् सर्व क्षीणं, तदपि सत् समयद्वयोनावलिकाद्विकमात्रेण कालेन क्षयं यास्यति, यावच्च न याति तावत्तिस्रः सत्यः, क्षीणे तु तस्मिन् द्वे, तदेवं द्विविधबन्धकस्यैते द्वे त्रीणि चोपशमश्रेण्याश्रितानीति सर्वसंख्यया पश्च सत्तास्थानानि । तथा संज्वलनमायायाः प्रथमस्थितावावलिकाशेषायां बन्धोदयोदीरणानां युगपद्वयवच्छेदे एकविधबन्धो भवति, तदानीं च संज्वलन
५११२।।
For Private and Personal Use Only