SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संजपसु न लब्भइ, कहं ? भन्नइ - संखेज्जवासा उपसु खाइगसम्मद्दिट्ठी न उबवज्जइ, असंखेज्जवासाउपसु उववज्जेज्जा, तस्स देसविरई णत्थि त्ति" । ये तु मनुष्या देशविरतास्तेषां पञ्चकोदये त्रीणि सत्तास्थानानि एकविंशतिचतुर्विंशत्यष्टाविंशतिरूपाणि । षट्कोदये सप्तोदये च प्रत्येकं पञ्श्चापि सत्तास्थानानि । अष्टकोदये चैकविंशतिवर्जानि शेषाणि चत्वारि सत्तास्थानानि भवन्ति, तानि चाविरतसम्यग्दृष्टयुक्तया दिशा भावनीयानि । एवं नवकबन्धे प्रमत्तेऽप्रमत्ते च प्रत्येकं चतुष्कोदये त्रीणि त्रीणि सत्तास्थानान्यष्टाविंशतिचतुर्विंशत्येकविंशतिलक्षणानि । पञ्चकोदये पदकोदये च पञ्च पञ्च सत्तास्थानान्यष्टाविंशतिचतुर्विंशतित्रयोविंशतिद्वाविंशत्येकविंशतिलक्षणानि । एतान्येवैकविंशतिवर्जानि शेषाणि चत्वारि सप्तकोदये प्रागुक्तदिशा भावनीयानि । अपूर्वकरणस्य तु नववन्धकस्य' त्रीण्युदयस्थानानि चत्वारि पञ्च षट् चेति । एतेषु च त्रिष्वपि प्रत्येकं त्रीणि त्रीणि सत्तास्थानान्यष्टाविंशतिचतुर्विंशत्येक विंशतिलक्षणानि द्रष्टव्यानि । अपूर्वकरणो हि वेदकसम्यग्दृष्टिन भवति किं त्वौपशमिकसम्यग्दृष्टिः क्षायिक सम्यग्दृष्टिर्वा । तत्रौपशमिकसम्यग्दृष्टेरष्टाविंशतिचतुर्विंशती एव प्रावद्भावनीये, क्षायिकसम्यग्दृष्टे स्त्वेकविंशतिः । पञ्चचतुस्त्रिद्वयेकबन्धकेष्यबन्धके च सूक्ष्मसम्पराये उपशान्तमोहे च प्रत्येकं त्रीणि त्रीणि सत्तास्थानान्यष्टाविंशतिचतुर्विंशत्येकविंशतिलक्षणान्युपशान्त सप्तक मुद्वलितानन्तानुबन्धिनं क्षीणसप्तकं चाधिकृत्य यथायोगं द्विकोदये एककोदयेऽनुदये चोपशमश्रेण्यां भवन्ति । तथा पञ्चविधबन्धकस्यानिवृत्तिबादरक्षपकस्य प्रागुक्ताया एकविंशतेरष्टसु कषायेषु क्षीणेषु त्रयोदशकं सत्तास्थानं, ततो नपुंसकवेदे क्षपिते द्वादशकं ततः स्त्रीवेदे क्षपिते एकादशकमिति, एतान्यन्यान्यपि त्रीणि सत्तास्थानानि त्रीणि च प्रागुक्तानीति सर्वसंख्यया पञ्चबन्धकस्य पद् सत्तास्थानानि । तथेह यः कश्चिन्नपुंसकवेदेन क्षपकश्रेणिं प्रतिपन्नः, स स्त्रीवेद्रनपुंसक वेदौ युगपत् क्षपयति, तयोर्युगपत्क्षयसमकालमेव च पुरुषवेदस्य बन्धो व्यवछिद्यते, तदनन्तरं पुरुषवेदहास्यादिषट्के युगपत् For Private and Personal Use Only 14222
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy