________________
Shri Mahavir Jain Aradhana Kendra
कर्म प्रकृतिः ॥ १११ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्च सत्तास्थानानि-अष्टाविंशतिश्चतुर्विंशतिस्त्रयोविंशतिर्द्वाविंशतिरेकविंशतिश्च । तत्राष्टाविंशतिरौपशमिकसम्यग्दृष्टीनां वेदकसम्यग्दृष्टीनां च चतुर्विंशतिरप्युभयेषां, नवरं विसंयोजितानन्तानुबन्धिनां त्रयोविंशतिर्वेदकसम्यग्दृष्टीनामेव क्षपणायोद्यतानामनन्तानुबन्धिषु मिथ्यात्वे च क्षपिते सति, द्वाविंशतिरपि तेषामेव सम्यग्मिध्यात्वे क्षपिते, स च द्वाविंशतिसत्कर्मा सम्यक्त्वं क्षपयँस्तच्चरमग्रासे वर्त्तमानः कश्चित्पूर्ववद्धायुष्कः कालमपि करोति, कालं च कृत्वा चतसृणां गतीनामन्यतमस्यां गतावुत्पद्यते । उक्तं च- "पट्टबगो उ मणु| स्सो विगो उसु वि इसु" । ततो द्वाविंशतिश्वतसृष्वपि गतिषु प्राप्यते । एकविंशतिः क्षायिकसम्यग्दृष्टीनाम् । एवमष्टोदयेऽपि मिश्रदृष्टी नामविरत सम्यग्दृष्टीनां चोक्तरूपाण्यन्युनानतिरिक्तानि सत्तास्थानानि भावनीयानि । एवं नवोदयेऽपि, नवरं नवोदयोऽविरतानां | वेदकसम्यग्दृष्टीनामेवेति । तत्राष्टाविंशतिचतुर्विंशतित्रयोविंशतिद्वाविंशतिलक्षणानि चत्वारि सत्तास्थानानि वाच्यानि । त्रयोदशबन्धकानां | देशविरतानां चत्वार्युदयस्थानानि तद्यथा पञ्च षट् सप्ताष्ट। तत्र देशविरता द्विधा तिर्यञ्चो मनुष्याश्च । तत्र तिरवां चतुर्ष्वप्युदयेषु द्वे द्वे सत्तास्थाने अष्टाविंशतिश्चतुर्विंशतिश्च । तत्राष्टाविंशतिरौपशमिकसम्यग्दृष्टीनां वेदकसम्यग्दृष्टीनां वा । तत्रौपशमिकसम्यग्दृष्टीनां प्रथमसम्यक्त्वेन सह देशविरतिप्रतिप्रत्तिकाले, वेदकसम्यग्दृष्टीनां त्वष्टाविंशतिः सुप्रतीता । चतुर्विंशतिरनन्तानुबन्धिषु विसंयोजितेषु वेदकसम्यग्दृष्टी नामवगन्तव्या । शेषाणि तु त्रयोविंशत्यादीनि सत्तास्थानानि तिरथां न संभवति, तानि हि क्षायिकसम्यक्त्वमुत्पादयतः प्राप्यन्ते, न च तिर्यञ्चः क्षायिकसम्यक्त्वमुत्पादयन्ति, किन्तु मनुष्या एव । अथ मनुष्यः क्षायिक सम्यक्त्वमुत्पाद्य यदा तिर्यक्षूत्पद्यते तदा तिरश्वोऽप्येकविंशतिः कथं न प्राप्यते १ मैवं, क्षायिक सम्यग्दृष्टेस्तिर्यभूत्पित्सोरसंख्ये यवर्षायुष्केष्वेव समुत्पादात्, तत्र च देशविरत्यभावाद्देश विरतेषु तिर्यक्षु त्रयोविंशत्यादिप्रतिषेधस्य युक्तत्वात् । उक्तं च सप्ततिका चूण- "पगवीसा तिरिक्खे संजया
For Private and Personal Use Only
Kaaherasa
मोहस्यसत्तास्थानानि
!१११॥