SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तत्र सप्तानामुपशान्तमोहे क्षीणमोहे वा । चतुणां सयोगिकेवलिनि । तदेवमुक्तो मूलप्रकृतीरधिकृत्य बन्धोदयसचानां संवेधः । अथैतासामेव स्थानान्युच्यन्ते स्थानं नाम द्वित्रादिप्रकृतिसमुदायः । तत्र वेदनीयायुर्गोत्राणां प्रत्येकं द्वे द्वे सत्तास्थाने-द्वे एका चेति । तत्र वेदनीयस्यायोगिकेवलिद्विचरमसमयं यावद्वे अपि सत्यौ, एकतरस्य व्यवच्छेदे चरमसमये एका । गोत्रस्योच्चर्गोत्रे उद्वलिते नीचंगोत्रे वाऽयोगिद्विचरमसमये क्षीणे एका सती, शेषकालं तु द्वे। बन्धे उदये च वेदनीयायुर्गोत्राणामेकमेवैकप्रकृतिरूपं स्थानम् । न ह्यमीषां विवादिप्रकतयो युगपद्धन्धमुदयं वा गच्छन्ति । तथा ज्ञानावरणान्तराययोः प्रत्येकं बन्धोदयसत्तास्वेकैकं पञ्चपञ्चप्रकृत्यात्मकं स्थानम् । ____ अथायुषो गुणस्थानेषु बन्धोदयसत्ताश्चिन्त्यन्ते-आद्यं गुणस्थानं यावन्नरकायुषो द्वितीय यावतिर्यगायुषश्चतुर्थ यावन्मनुष्यायुषः | सप्तमं यावद्देवायुषो बन्धः । तथा चतुर्थ याषनरकायुषो देवायुषश्चोदयः, पञ्चमं यावत्तिर्यगायुषश्चतुर्दशं यावन्मनुष्यायुषः । तथा सप्तमं | TI यावन्नरकायुषः सत्ता, सप्तमं यावत्तिर्यगायुषोऽयोगिकेवलिनं यावन्मनुष्यायुषः, देवायुषस्तूपशान्तमोहगुणस्थानकं यावत् , यतो देवा| युषि बद्धेऽप्युपशमश्रेणिमारभते, सा चोपशान्तमोहगुणस्थानं यावद्भवति । सम्प्रत्यायुषो बन्धोदयसत्तासंवेध उच्यते-तत्र तिर्यश्चो) मनुष्याश्च सर्वत्रोत्पद्यन्त इति तेषां चतुर्णामप्यायुषा बन्धसंभवः, देवा नारकाश्च तिर्यअनुष्यगत्योरेवोत्पद्यन्त इति तेषां द्वयोरेवायुषो. |बन्धः । ततस्तियङमनुष्यगत्योर्नव नव, देवनारकयोश्च पञ्च पञ्च भङ्गाः सम्भवन्तीति सर्वसंख्ययाऽष्टाविंशतिर्भङ्गाः । तथाहि-नैरयि| कस्य परभवायुर्बन्धकालात् पूर्व नारकायुष उदयो नारकायुषः सत्ता १, एष भङ्ग आयेषु चतुर्पु गुणस्थानेषु प्राप्यते, शेषगुणस्थानस्य | नरकेष्वसंभवात् । परभवायुर्वन्धकाले तिर्यगायुषो बन्धो नारकायुष उदयो नारकतिर्यगायुषी सती २, एष भङ्गो मिथ्यादृष्टेः सासादनस्य HOR&SODE For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy