________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
बंधोदय सत्ता संवेधः
मोहनीयस्योदये षट् सप्ताष्टौ वा बध्यन्ते । तत्राष्टावायुर्वन्धकाले, तदभावे तु सप्त, तानि चानिवृत्तिबादरं यावत् , षट् सूक्ष्मकर्मप्रकृतिः सम्पराये । मोहनीयवर्जानां शेषाणामुदये एक षट् सप्ताष्टौ च बध्यन्ते । तत्र षट्सप्ताष्टभावना प्राग्वत् । एकं ज्ञानावरणदर्शनावरणा॥१७॥
न्तरायाणामुदये उपशान्तमोहे क्षीणमोहे वा, वेदनीयायुर्नामगोत्राणामुदये सयोगिकेवलिन्यपि, तच्चैकं सातवेदनीयरूपं द्रष्टव्यम् । ॐ तदेवमुक्त उदयस्य बन्धेन सह संवेधः । अथ बन्धस्योदयेन सहोच्यते__षण्णां सप्तानामष्टानां वा बन्धे मोहस्योदयो भवति, अष्टसप्तषबन्धानां क्रमेणाप्रमत्तानिवृत्तिबादरसूक्ष्मसम्परायान्तत्वात् , मोहोदयस्य चावश्यं सूक्ष्मसम्परायान्तत्वात् । शेषाणां तूदयोऽष्टानां सप्तानां षण्णामेकस्य च बन्धे भवति । तथाहि-ज्ञानावरणदर्शनावरणान्तराया. णामुदयः क्षीणमोहं यावत् , वेदनीयायुर्नामगोत्राणामयोगिकेवलिनं यावत् एकस्य बन्ध उपशान्तमोहादौ । ततः शेषाणामुदयः सप्तासृषडेकबन्धेऽपि भवति । तदेवमुक्तो बन्धस्योदयेन सह संवेधः । अथ सत्ताया बन्धेन सहोच्यते
एककस्याषि कर्मणः सत्तायामेकषट्सप्ताष्टभेदैश्चतुर्विधोऽपि बन्धः संभवति । मोहनीयस्य सत्ताया उपशान्तमोहं शेषघातिनां क्षीणमोहं अघातिनां चतुर्णामयोगिकेवलिनं यावत्माप्तेः, अष्टसप्तपडेकबन्धानां च यथासंक्रम, अप्रमत्तमनिवृत्तिबादरं सूक्ष्मसम्परायमुप. शान्तमोहादिकं च यावत्प्राप्तः । तदेवमुक्तः सत्ताया बन्धेन संवेधः । अथ बन्धस्य सत्तया सहोच्यते
____ अष्टबन्धे सप्तबन्धे षड्बन्धे च नियमादष्टानां सत्ता, एकस्य च बन्धेऽष्टानां सप्तानां चतुर्णा च क्रमेणोपशान्तमोहे क्षीणमोहे. III सयोगिकेवलिनि च । उक्तो बन्धस्य सत्तया संवेधः । सम्प्रत्युदयेन सहाभिधीयते
सप्तानामष्टानां षण्णां वा बन्धे नियमादष्टानामपि प्रकृतीनामुदयो भवति । सातवेदनीयस्यैवैकस्य बन्धे सप्तानां चतुणां वोदयः।
॥१७॥
For Private and Personal Use Only