________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SODE
AGAGLIGENCE
वेदनीये बध्यमाने तदेवैकं बध्यते, सूक्ष्मसम्पराये मोहायुर्वर्जानि षट् , सप्ताष्टभावना प्राग्वत् । ज्ञानावरगदर्शनावरणनामगोत्रान्तरायेषु | बध्यमानेषु षट् सप्ताष्टौ च, तत्र षट् सूक्ष्मसम्पराये, सप्ताष्टभावना प्राग्वत् । तदेवं चिन्तितो बन्धस्य बन्धेन संवेदः । अयोदयस्योदय| सत्ताभ्यां सह चिन्त्यते___ मोहस्योदये नियमादष्टावप्युदये सत्तायां च लभ्यन्ते । तदुदयो हि सूक्ष्मसम्परायान्तः । सूक्ष्मसम्परायं यावच्च सर्वाण्यपि कर्माण्युदये सत्तायां च प्राप्यन्त इति । ज्ञानावरणदर्शनावरणान्तरायाणामुदये सति सप्ताष्टौ च सत्तायामुदये च लभ्यन्ते । तत्राष्टावुदये सूक्ष्मसम्परायं यावत् , सत्तायां तूपशान्तमोहेऽपि । सप्त तूदयमाश्रित्योपशान्तमोहे क्षीणमोहे वा सत्तामधिकृत्य तु क्षीणमोहे एव । वेदनीयायुर्नामगोत्राणामुदये सत्यष्टौ सप्त चत्वारि वा सन्त्युदयवन्ति च प्राप्यन्ते । तत्राष्टावुदयमधिकृत्य सूक्ष्मसम्पराय, सत्तामधिकृत्य तूपशान्तमोहं यावत् । सप्तोदयमधिकृत्योपशान्तमोहे क्षीणमोहे वा सत्तामधिकृत्य तु क्षीणमोह एव । चत्वारि त्रयोदशे चतुर्दशे वा गुणस्थाने तान्येव । तदेवमुक्त उदयस्योदयसत्ताभ्यां संवेधः । अथ सत्ताया उदयसत्ताभ्यां चिन्त्यते- .
तत्र मोहनीयस्य सत्तायामुदयोऽष्टानां सप्तानां वा । तत्राष्टानां सूक्ष्मसम्परायं यावत् , सप्तानां तूपशान्तमोहे, सत्ता पुनरष्टानामेव, | मोहनीयसत्तायाः शेषसर्वसत्तानान्तरीयकत्वात् । ज्ञानावरणदर्शनावरणान्तरायाणां सत्तायां सप्तानामष्टानां वोदयः । तत्राष्टानामुदयः सूक्ष्मसम्परायं यावत् , सप्तानामुपशान्तमोहे क्षीणमोहे वा । सत्ताऽप्यष्टानां सप्तानां वा, अष्टानामुपशान्तमोहं यावत् , सप्तानां क्षीणमोहे । वेदनीयायुर्नामगोत्राणां सत्तायां सप्तानामष्टानां चतुर्णा वा सत्तोदयौ । तत्र सप्तानामष्टानां वा सत्तोदयौ प्राग्वत् । चतुर्णा त्रयोदशे चतुर्दशे च गुणस्थाने । तदेवमुक्तः सत्ताया उदयसत्ताभ्यां संवेधः । अयोदयस्य बन्धेन सह संवेध उच्यते
For Private and Personal Use Only