________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बंधोदय
स त्ता
संवेधः
नवरं नारका
१, एष भङ्ग
उदयोनारका
वा । अथवा मनुष्यायुषो बन्धो नारकायुष उदयो मनुष्यनारकायुषी सती ३, एष भङ्गो मिथ्यादृष्टेः सासादनस्याविरतसम्यग्दृष्टेर्वा । कर्मप्रकृतिः | बन्धोपरमे नारकायुष उदयो नारकतिर्यगायुषी सती ४, एष भङ्ग आयेषु चतुर्वपि गुणस्थानेषु, तिर्यगायुबन्धानन्तरं कस्यचिन्नारकस्य || ॥९८॥
सम्यमिथ्यात्वे सम्यक्त्वे वा गमनसंभवात् । अथवा नारकायुष उदयो मनुष्यनारकायुषी सती ५, एषोऽपि भङ्ग आयेषु चतुर्वपि गुणस्थानेषु, मनुष्यायुर्वन्धानन्तरं मिश्रे सम्यक्त्वे च संक्रमसम्भवात् । एवं देवानामपि पञ्च भङ्गा भावनीयाः। नवरं नारकायुषः स्थाने देवायुरुच्चारणीयम् । तिरश्चां परभवायुर्वन्धकालात् पूर्व तिर्यगायुष उदय स्तिर्यगायुषः सत्ता १, एष भङ्ग आयेषु पञ्चसु गुणस्थानेषु, शेषगुणस्थानस्य तिर्यक्ष्वसम्भवात् । बन्धकाले नारकायुषो बन्धस्तिर्यगायुष उदयो नारकतिर्यगायुषी सती२, एष भङ्गो मिथ्यादृष्टेः, अन्यस्य नारकायुरबन्धकत्वात् । अथवा तिर्यगायुषो बन्धस्तिर्यगायुष उदयो द्वे तिर्यगायुषी सती ३, एष भङ्गो मिथ्यादृष्टेः सासाद
नस्य वा । यद्वा मनुष्यायुषो बन्धस्तिर्यगायुष उदयो मनुष्यतिर्यगायुषी सती ४, एषोऽपि भङ्गो मिथ्यादृष्टेः सासादनस्य वा, तिरश्चो15 ऽविरतसम्यग्दृष्टेर्देशविरतस्य वा देवायुष एव बन्धसम्भवात् । यद्वा देवायुषो बन्धस्तिर्यगायुष उदयो देवतिर्यगायुषी सती ५, एष
| भङ्गो मिश्रवजितेष्वाद्येषु पञ्चस्वपि गुणस्थानेषु, मिश्रस्यायुर्वन्यायोगात्तदर्जनम् । बन्धोपरमे तु तिर्यगायुष उदयो नरकतिर्यगायुषी | सती ६, एष भङ्ग आयेषु पञ्चसु गुणस्थानेषु, नरकायुबन्धानन्तरं मिश्रसम्यक्त्वादावपि गमनसंभवात् । अथवा तिर्यगायुष उदयो द्वे तिर्यगायुषी सती ७, अथवा तिर्यगायुष उदयो मनुष्यतिर्यगायुषी सती ८, अथवा तिर्यगायुष उदयो देवतिर्यगायुषी सती ९, एते त्रयोऽपि भङ्गा आधेषु पञ्चसु गुणस्थानेषु । तदेवं सर्वसंख्यया तिरश्चां नव भङ्गाः। मनुष्याणामप्येवं नवैव । तत्र मनुष्यायुष उदयो मनुष्यायुषः सत्तेत्येष भङ्गोऽयोगिकेवलिनं यावत् १ । परभवायुर्वन्धकाले नरकायुषो बन्धो मनुष्यायुष उदयो नारकमनुष्या
।
॥९८॥
For Private and Personal Use Only