SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कर्मप्रकृतिः ॥९१॥ 14652252 ac www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | न लभ्यते । अथ स्वभावस्थे तीर्थकरे संभाविनि चतुस्त्रिंशदुदये चतुश्चत्वारिंशदादीनामन्यतमस्मादुदयस्थानात्संक्रमे चतुस्त्रिंशदुदयोऽल्पतरो भवतीति चेन्न, गुणस्थानक्रमारोहं विना केवलित्वाप्राप्तेः क्रमानुसरणे च क्षीणमोहगुणस्थाने त्रयस्त्रिंशत्प्रकृत्यात्मकमेकमेवोदयस्थानं मनुजगतिपश्चेन्द्रियजातित्रस बादरपर्याप्तसुभगादेय यशः कीर्त्तितंज स कार्मण स्थिरास्थिरशुभाशुभवर्णादिचतुष्टयागुरुलघुनिर्माणौदारिकद्विकप्रत्येकोपघातान्यतरविहायोगतिपराघात सुख र दुःखरान्यतरोच्छ्वासान्यतमसंस्थानाद्यसंहननान्यतरवेदनीयमनुष्यायुरुच्चैर्गोत्रलक्षणं | प्राप्यते । ततः केवलज्ञानोत्पत्तौ तीर्थकरनामोदये चतुस्त्रिंशल्लक्षणमुदयस्थानं भूयस्कारतयैव प्राप्यते, नाल्पतरतयेति । यदपि चैकोनपष्टिरूपमुदयस्थानं तदपि ततोऽन्यस्य महत उदयस्थानस्याभावान्नाल्पतरत्वमास्कन्दतीति द्वयापगमाच्चतुर्विंशतिरेवाल्पतराः । तदेवमुक्ताः सामान्यतः सर्वोत्तरप्रकृतीनामुदयस्थानेषु भूयस्कारादयः । उदीरणाधिकारोऽपि प्राय उदयसम एव द्रष्टव्यः । नवरं नाम्नोऽष्टनवोदयस्थानयोरुदीरणाभावः सामान्यतः सर्वोत्तरप्रकृतिसमुदाये चाप्रमत्तादौ वेदनीयायुर्वजनमित्यादिरूपो यो विशेषस्तमुदीरणा प्रस्थानतः सम्यक् परिभाव्य तद्गता भूयस्कारादयो निरूपणीयाः । I सम्प्रति प्रत्येकं ज्ञानावरणीयाद्युत्तरप्रकृतीनां सामान्यतः सर्वोत्तरप्रकृतीनां च सत्तास्थानेषु भूयस्कारादयो वाच्याः । तत्र प्रत्येकं ज्ञानावरणीयाद्यत्तरप्रकृतीनां ते भाव्यन्ते - ज्ञानावरणीयस्यान्तरायस्य च प्रत्येकं पञ्चपञ्चप्रकृत्यात्मकमेकं सत्तास्थानमवस्थितम् । अत्रान्यस्य महतोऽल्पस्य वा स्थानस्याभावाद्भूयस्काराल्पतरासंभवः, अवक्तव्योऽप्यत्र नास्ति, सकलैतदुत्तरप्रकृतिसत्ताव्यवच्छेदे भूयः सत्तासंभवात् । वेदनीयस्य द्वे सत्तास्थाने, तद्यथा द्वे एका च । तत्र द्वे अयोग्यवस्थाद्विचरमसमयं यावत्, एका चरमसमये । अत्र न भूयस्कारसत्कर्मता, एकम कृत्यात्मकसत्तास्थानाद्विप्रकृत्यात्मकसत्तास्थाने संक्रमाभावात् । एकमल्पतरं तचैकप्रकृत्यात्मकम् । एकं For Private and Personal Use Only Mara सत्तास्था नेषु भूय स्कारादयः ॥९१॥
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy