________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याः । तत्र सामान्यतः सर्वोत्तरप्रकृतीनामुदयस्थानानि षड्विंशतिः । तद्यथा - एकादश द्वादश त्रयोविंशतिश्चतुर्विंशतिः, तत एकोनत्रिंशदादीनि चतुस्त्रिंशदन्तानि ततश्चतुश्चत्वारिंशदादीनि एकोनषष्टयन्तानि, ११-१२-२३-२४२९-३०-३१-३२-३३-३४-४४-४५ | ४६-४७-४८-४९-५०-५१-५२-५३-५४-५५-५६-५७-५८-५९ । तत्र मनुष्यगतिमनुष्यायुःपञ्चेन्द्रियजातित्रसबादरपर्याप्त| सुभगादेययशः कीर्त्तयोऽन्यतरवेदनीयमुच्चैर्गोत्रं चेत्येकादशम कृत्युदयोऽतीर्थकृतोऽयोगित्वावस्थायाम् । एष एव तीर्थकरनामान्वितो द्वा दशोदयस्तीर्थकृतः । एतावेव द्वावुदयावगुरुलघुनिर्माणस्थिरास्थिरशुभाशुभतैजसकार्मणवर्णादिचतुष्टयरूपनामधुवोदयसहितौ समुद्घाते | कार्मणकाययोगे त्रयोविंशतिचतुर्विंशत्युदयौ भवतः । एतेषूदयस्थानेषु न भूयस्कारप्राप्तिः, अयोगिनः सयोगित्वस्य अतीर्थकृतच तीर्थकरत्वस्याप्राप्तेः । तावेव त्रयोविंशतिचतुर्विंशत्युदयौ प्रत्येकोपघातौदारिकद्विकान्यतमैक संभविसंस्थानाद्य संहननसमेतौ यथासङ्खयमेकोनत्रिंशत्रिंशदुदयौ भवतः । तथा स्वभावस्थयोस्तीर्थकरातीर्थकरयोर्यावेकत्रिंशत्रिंशदूपौ नाम्न उदयौ तावन्यतरवेदनीयमनुष्यायुरुच्चैर्गोत्रस| मेतौ चतुस्त्रिंशत्त्रयस्त्रिंशदुदयौ भवतः । तयोः खरनिरोधे क्रमेण त्रयस्त्रिंशद्वात्रिंशदुदयौ । तयोरप्युच्छ्वासनिरोधे द्वात्रिंशदेकत्रिंशदुदयौ । | एते दशोदयाः केवलिनाम् । एतेषु दशस्र्दयस्थानेषु पद्भ्यस्कारोदयाः । ते चातीर्थकरतीर्थकरावधिकृत्य क्रमेणकोनत्रिंशत्रिंशदादयो | द्रष्टव्याः, शेषास्तु न संभवन्ति । तत्र कारणमुक्तमेव । नवाल्पतरोदयाः, ते च चतुस्त्रिंशद्वर्जाः शेषाः सर्वेऽपि । चतुश्चत्वारिंशदुदयः क्षीणसतकस्याविरतसम्यग्दृष्टेरन्तरालगतौ वत्तमानस्य । तत्र ज्ञानावरणपञ्चकं दर्शनावरणचतुष्कमन्तरायपञ्चकमनन्तानुबन्धिवर्जास्त्रयोऽन्यतमे | क्रोधादयस्त्रयाणां वेदानामन्यतमो वेदः द्वयोर्युगलयोरन्यतरद्युगलमिति षद्मोहनीय प्रकृतयः सर्वसङ्ख्यया विंशतिर्घातिप्रकृतयः। तथा चत | सृष्वन्यतमा गतिरन्यतमानुपूर्वी पञ्चेन्द्रियजातिः त्रसबादरपर्याप्तापर्याप्तान्यतरसुभगादुर्भगैकतरादेयानादेयैकतरय शः कीर्त्त्य यशः कीत्यकत
For Private and Personal Use Only
Saks अय