________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandi
www.kobatirth.org
LOD
॥८९॥
MURTISARG
कृतो मनुजगतिपश्चेन्द्रियजातित्रसबादरपर्याप्तसुभगादेययशाकीय॑गुरुलघुतैजसकार्मणनिर्माणवर्णादिचतुष्टयस्थिरास्थिरशुभाशुभाद्यसंहननोपघातप्रत्येकौदारिकद्विकषडन्यतमसंस्थानपराघातोच्छ्रासान्यतरविहायोगतिसुस्वरदुःखरान्यतरलक्षणत्रिंशत्प्रकृत्युदयो भवति । एष एव उदयस्थातीर्थकृतस्तीर्थकरनामान्वित एकत्रिंशदुदयः । ततः समुद्घातं कुर्वतोऽतीर्थकृतो द्वितीयसमये औदारिकमिश्रकाययोगे वर्तमानस्य परा
नेषु भूय
स्कारादयः घातोच्छ्वासान्यतरविहायोगतिसुखरदुःस्वरान्यतरनिरोधे षड्विंशतिः १ । पराघातोच्छ्वासप्रशस्तविहायोगतिसुखरनिरोधे तीर्थकृतः | सप्तविंशतिः २। षड्विंशतिरेवातीर्थकरकेवलिनः समुद्घातं प्रविष्टस्य तृतीयसमये कार्मणकाययोगे वर्तमानस्योदितसंस्थानाधसंहननौ
दारिकद्विकोपघातप्रत्येकरूपप्रकृतिषट्कनिरोधे विंशतिः ३ । तस्मिन्नेव समये तीर्थकृत उक्तप्रकृतिषद्कनिरोधे एकविंशतिः ४ । अयो-12 | गित्वं प्रतिपद्यमानस्य तु तीर्थकृत एकत्रिंशतः खरनिरोधे त्रिंशद्भवति ५। ततोऽप्युच्छ्वासे निरुद्ध एकोनत्रिंशत्, अतीर्थकृतस्त्रिंशतः खर| निरोधे एकोनत्रिंशत् ६ । तत उच्छ्वासे निरुद्धेऽष्टाविंशतिः ७। ततोऽष्टाविंशतेरतीर्थकृत्केवलिनोऽयोगित्वप्रतिपत्तिप्रथमसमये पराघातोदितविहायोगतिप्रत्येकोपघातान्यतमसंस्थानाद्यसंहननौदारिकद्विकस्थिरास्थिरागुरुलघुशुभाशुभतैजसकार्मणवर्णादिचतुष्टयनिर्माणलक्षणविशतिप्रकृत्युदयव्यवच्छेदेऽष्टकोदयः ८। तीर्थकृत्केवलिन एकोनत्रिंशत उक्तविंशतिप्रकृत्युदयव्यवच्छेदे नवकोदयः। संसारिणां त्वेकत्रिंशदादेरुदयस्थानादेकविंशत्यन्तेषु कतिपयेष्वेवाल्पतरोदयस्थानेषु संक्रमणम् । तत इत्थं विचार्यमाणमल्पतरोदयस्थानमधिकं न प्राप्यत | इति नवैवाल्पतरोदयाः । अवस्थितोदयाः स्थानतुल्याः । अवक्तव्योदयस्त्वसंभवी, यतः सर्वनामोत्तरप्रकृत्युदयव्यवच्छेदोऽयोगिचरम- ा | समये, न च ततः पुनरुदय इति। . .
॥८९॥ तदेवमुक्ताः प्रत्येकं ज्ञानावरणीयाद्युत्तरप्रकृतीनामुदयस्थानेषु भूयस्कारादयः । सम्प्रति सामान्यतः सर्वोत्तरमकृतीनामुदयस्थानेषु वक्त
For Private and Personal Use Only