SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kenda www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir Kal ADMEGCODSGESeksks जीवानपेक्ष्य नानाप्रकाराणीति सप्ततिकार्थसङ्ग्रहाद्भावनीयानि । अत्र भूयस्काराः षट्-त्रयोविंशत्यादेः पश्चविंशत्यादिषु एकत्रिंशदन्तेषु गमनात्, एकत्रिंशद्वन्धादुत्तीर्यैकप्रकृतिबन्धस्य च क्रियमाणस्य गुरुत्वाभावादष्टान्तरेष्वपि षण्णामेव भूयस्काराणां संभवात् । अथ प्रतिपातकाले एकस्याः प्रकृतेर्बन्धमाधायकत्रिंशत्प्रकृतिबन्धमपि करोति । एकप्रकृत्यपेक्षया चैकत्रिंशत्प्रकृतिबन्धो भूयस्कार इति सप्त भूयस्काराः प्राप्नुवन्ति । युक्तं चैतत्, सप्तानां भूयस्काराणां शास्त्रान्तरेऽप्यभिधानात् । उक्तं च शतकचूk-"एकाओ वि एकतीसं जाइ त्ति भूओगारा सत्त"इति । तदयुक्तम्,एकत्रिंशद्वन्धरूपस्य भूयस्कारस्याष्टाविंशत्याद्यपेक्षया मागेव गृहीतत्वात् एकापेक्षया तस्य पृथग्भावा| योगात् । न यवधिभेदाद्भुयस्कारभेदो विवक्ष्यते, तथा सति भूयस्काराणामतिबाहुल्यप्रसक्तः। तथाहि-कदानिदष्टाविंशतेरेकत्रिंशद्वन्धं | गच्छति कदाचिदेकोनत्रिंशतः कदाचिदेकस्याः, तथा कदाचित्रयोविंशतेरप्यष्टाविंशतिबन्धं गच्छति कदाचित्पश्चविंशतेरित्यादि । तदेवं | सप्तातिरिक्ता बहवोऽपि भूयस्काराः प्राप्नुवन्ति, न चैतदिष्टं, ततो नावधिभेदाद्भूयस्कारभेद इति पडेव भूयस्कारभेदाः । शास्त्रान्तरे | सप्ताभिधानं बन्धादनुत्तीर्णावधिभेदो न भूयस्कारभेदप्रयोजकः, तदुत्तीर्णावधिभेदस्तु भूयस्कारभेदप्रयोजक इति प्रसङ्गाभिप्रायेण, तत्रापि परमार्थतः षडन्तर्भाव एवोन्नेय इति तत्वम् । अल्पतराः सप्त, तथाहि-देवत्वं प्राप्तस्यैकत्रिंशतस्त्रिंशति गमनं संभवति, तस्यैव देवभवाच्यवमानस्य त्रिंशत एकोनविंशति, तथा क्षपकश्रेण्यारोहे उपशमश्रेण्यारोहे वाऽष्टाविंशत्यादेरेकस्यां, नानाजीवानां यथायोगं त्रिंशदा-19 देखयोविंशत्यन्तेषु गमनं, ततः सप्ताल्पतराः । अवस्थिता अष्टैच, अवक्तव्यास्तु त्रयः, ते पुनरेवम्-उपशान्तमोहावस्थायां नामकर्मणः सर्वथाऽबन्धको भूत्वा इहैवोपशान्ताद्धाक्षयेण यदा पुनरप्येकविधं बध्नाति तदाद्यसमये प्रथमोऽवक्तव्यबन्धः, यदा चोपशान्तमोहाव| स्थायामेवायुःक्षयेणानुत्तरसुरेषु समुत्पद्यते उपात्ततीर्थकरनामा च तदा तस्य प्रथमसमय एव मनुष्यगतिप्रायोग्यां तीर्थकरनामसहितां For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy