________________
Shri Mahavir Jain Aradhana Kendra
कर्मप्रकृतिः በሪሪ
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बघ्नतः पञ्चषष्टिप्रकृत्यात्मक एकोनविंशतितमः । तस्यैवायुर्बन्धकस्य पट्पष्टिप्रकृत्यात्मको विंशतितमः । ततो मिथ्यात्वं गतस्य नाम्न त्रयोविंशतिं बध्नत आयुर्बन्धकस्य मिथ्यात्वानन्तानुबन्धिचतुष्टयस्त्यानद्धित्रिकाणि च बध्नतः सप्तषष्टिप्रकृत्यात्मक एकविंशतितमः । | तस्यैव पश्चविंशतिबन्धकस्यायुरबन्धेऽष्टषष्टिप्रकृत्यात्मको द्वाविंशतितमः । तस्यैव पञ्चविंशतिबन्धकस्यायुषो बन्धे एकोनसप्ततिप्रकृत्यात्मक स्त्रयोविंशतितमः । तस्यैव मिथ्यादृष्टेः षड्विंशतिबन्धकस्यायुषो बन्धे सप्ततिप्रकृत्यात्मकश्चतुर्विंशतितमः । तस्यैव नाम्नोऽष्टाविंश|तिबन्धकस्यायुरबन्धे एकसप्ततिप्रकृत्यात्मकः पञ्चविंशतितमः । तस्यैवायुर्बन्धकस्य द्वासप्ततिप्रकृत्यात्मकः पविंशतितमः । तस्यैव मिथ्यादृष्टेरे कोनत्रिंशतमायुश्च बध्नतस्त्रिसप्ततिप्रकृत्यात्मकः सप्तविंशतितमः, तस्यैव नाम्नस्त्रिंशतं बध्नत आयुर्बन्धकस्य चतुःसप्ततिप्रक्रत्यात्मकोऽष्टाविंशतितमः । इह केचिद्भूयस्कारा अन्यान्यावधिस्थानाद्भूयो भूयः संभवन्तोऽप्येकवारं गृहीतत्वान्न पृथग्गणनायामधिक्रियन्ते, ततोऽष्टाविंशतिरेव भूयस्काराः, एतदनुसारेणाल्पतरा अध्यष्टाविंशतिरेव भावनीयाः, अवस्थितबन्धास्तु स्थानसमा इत्येकोनत्रिंशत्, अवक्तव्यस्त्वत्रानुपपन्नः, सर्वोत्तरप्रकृत्य बन्धकीभूतस्य भूयो बन्धकत्वानुपपत्तेः ।
तदेवमुक्ताः प्रत्येकं ज्ञानावरणीयाद्युत्तरप्रकृतीनां सामान्यतः सर्वोत्तरप्रकृतीनां च बन्धस्थानेषु भूयस्कारादयः, अधोदयस्थानेषु वक्तव्याः । तत्र प्रथमतः प्रत्येकं ज्ञानावरणीयाद्युत्तरप्रकृतीनामुदयस्थानेषु भावनीयाः । ते चैवम्-ज्ञानावरणीयान्तराययोर्वेदनीयायुर्गोत्राणां चैकैकमुदयस्थानं पञ्चपञ्चप्रकृत्यात्मक मे कैकप्रकृत्यात्मकं च । दर्शनावरणीयस्य द्वे उदयस्थाने - चतस्रः पञ्च चेति । तत्र चक्षुरचक्षुरवधिकेवलदर्शनावरणरूपाश्चतस्रः, ता एव निद्रापञ्चकान्यतमसहिताः पञ्च, निद्रा हि परावर्त्तमानोदया इति द्वित्रादिका नोदयमायान्ति । अत्रैको भूयस्कारः, एक एव चाल्पतरः, द्वाववस्थितौ, अवक्तव्यस्तु नास्ति, क्षीणमोहे सर्वदर्शनावरणप्रकृत्युदयव्यवच्छेदे सति भूय
For Private and Personal Use Only
ब्लडaaka
उदयस्थानेषु भूय
स्कारादयः
॥८८॥