________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandie
SIGNEG
HOMGDINGSekck
सम्परायमागतस्य ज्ञानावरणपश्चकान्तरायपञ्चकदर्शनावरणचतुष्टययशःकीच्युच्चैगोत्ररूपाः पोडश प्रकृतीरधिका बध्नतः सप्तदशप्रकृत्या| त्मक एको भूयस्कारः । ततोऽनिवृत्तिबादरं प्रविशतःप्रथमतः संज्वलनलोभमेकमधिकं बध्नतोऽष्टादशप्रकृत्यात्मको द्वितीयोभूयस्कारः। ततो मायामपि बध्नत एकोनविंशतिप्रकृत्यात्मकस्तृतीयः । ततः संज्वलनमानबन्धे विंशतिप्रकृत्यात्मकस्तुरीयः । ततः संज्वलनक्रोधस्थापि बन्धे एकविंशतिप्रकृत्यात्मकः पञ्चमः । ततोऽप्यधोऽवतरतः पुरुषवेदमपि बनतो द्वाविंशतिप्रकृत्यात्मकः षष्ठः। ततोऽपूर्वकर गगुणस्थानकं प्रविशतो भयजुगुप्साहास्यरतिरूपप्रकृतिचतुष्टयमधिकं बध्नतः षड्विंशतिप्रकृत्यात्मकः सप्तमः। ततस्तस्मिन्नेवापूर्वकरगगुणस्थानके क्रमेणाधोऽवतरतो नाम्नोऽष्टाविंशतिं बध्नतो यश कीर्तिवर्जाः शेषाः सप्तविंशतिप्रकृतयोऽधिकाः प्राप्यन्त इति त्रिपश्चाशत्प्रकृत्यात्मकोऽष्टमो भूयस्कारः। तस्यैव तीर्थकरनामसहितां देवगतिप्रायोग्यामेकोनत्रिंशतं बध्नतश्चतुष्पश्चाशत्प्रकृत्यात्मको नवमः । आहारकद्विकसहितां त्रिंशतं बध्नतः पञ्चपश्चाशत्मकृत्यात्मको दशमः । आहारकद्विकतीर्थकरनामसहितामेकत्रिंशतं बध्नतः षट्पञ्चाशप्रकृत्यात्मको द्वादशः । एकत्रिंशता सह निद्राद्विकं बनतोऽष्टपश्चाशत्प्रकृत्यात्मकत्रयोदशः। ततोऽप्रमत्तगुणस्थाने समागतस्य तामेवाटपञ्चाशतं देवायुषा सह बध्नत एकोनषष्टिप्रकृत्यात्मकश्चतुर्दशः । ततो देशविरतगुणस्थानमागतस्य नाम्नोऽष्टाविंशतिबन्धकस्य प्रत्याख्यानावरणकषायचतुष्टयमधिकं बध्नतः षष्टिप्रकृत्यात्मकः पञ्चदशः। तस्यैव नाम्न एकोनत्रिंशतं बध्नत एकपष्टिप्रकृत्यात्मकः षोडशः। ततोऽविरतसम्यग्दृष्टिगुणस्थानमागतस्य नाम्नोऽष्टाविंशतिबन्धकस्यायुरबन्धेपत्याख्यानकषाय चतुष्टस्याधिकस्य बन्धे त्रिपाष्टेप्रकृत्यात्मकः सप्तदशः । इह प्रकारान्तरासंभवात् द्विषष्टिप्रकृत्यात्मकं बन्धस्थानं सर्वथा न संभवति, ततस्तदात्मको भूयस्कारो न लभ्यते ।। ततस्तस्यैवाविरतसम्यग्दृष्टेनाम्न एकोनत्रिंशतं बध्नतश्चतुःषष्टिप्रकृत्यात्मकोऽष्टादशो भूयस्कारः । तस्यैव मनुष्यगतिप्रायोग्यां त्रिंशतं
For Private and Personal Use Only