________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्विप्रकृत्यात्मकमवस्थितम्, एकमकृत्यात्मकस्य स्थानस्यैकसामयिकत्वेनावस्थितत्वाभावात् । गोत्रायुषोद्वे द्वे सत्तास्थाने, तद्यथा-द्वे एका च । तत्र गोत्रप्रकृत्योरन्यतरानपगमे द्वे । यदा तु तेजोवायुभवगतेनो चैगत्रमुद्वलितं भवति नीचेगोत्रं वाऽयोग्यवस्थाद्विचरमसमये क्षीणं तदैका | आयुषः परभवायुरबन्धं यावदेका, तद्बन्धे च द्वे सत्यौ । तत्र गोत्रस्यैकं द्विप्रकृत्यात्मकं भूयस्कारसत्कर्म, यदोद्वलितोचैर्गोत्रो नीचे गोत्र कसत्कर्मा सन् भूय उच्चैर्गोत्रं बध्नाति तदाऽवसेयं, एकमेकप्रकृत्यात्मकमल्पतरं तदपि चोचैर्गोत्रे उद्वलिते नीचैर्गोत्रे वा क्षीणे, द्वे अवस्थितसत्कर्मणी, द्वयोरपि चिरकालमवस्थानात्, नवरमेकप्रकृत्यात्मके सत्तास्थाने चिरमत्रस्थानमुद्वलितोच्चर्गोत्रस्य | नीचगत्ररूपे द्रष्टव्यं, नोच्चैर्गोत्ररूपे, तस्य द्वितीयसमय एव क्षयात् । आयुषोऽप्येकं द्विप्रकृत्यात्मकं भूयस्कारसत्कर्म, तच्च परभवायुर्बन्धे, एकमेकप्रकृत्यात्मकमल्पतरसत्कर्म, तच्चानुभूयमानभवायुषः सत्ताव्यवच्छेदे परभवायुष उदयसमये । द्वे अवस्थितसत्कर्मणी, द्वयोरपि सत्तास्थानयोश्चिरकालमवस्थानात् । यश्ववक्तव्यं तदुभयत्रापि नास्ति, उभयोरपि सर्वस्वस्वोत्तर प्रकृतिसत्ताव्यवच्छेदे भूयः सत्ताया अयोगात् ।
दर्शनावरणीयस्य श्रीणि सत्कर्मस्थानानि-नव षट् चतस्रश्चेति । तत्र क्षपकश्रेण्यामनिवृत्तिवादराद्धायाः संख्येयान् भागान् यावदुपशमश्रेण्यामुपशान्तमोहगुणस्थानं यावन्नव । क्षपक श्रेण्यामनिवृत्तिबादरसम्परायाद्वायाः संख्येयेभ्यो भागेभ्यः परतः क्षीणमोहगुणस्थानस्य द्विचरमसमयं यावत् पद्, चरमसमये चतस्रः । अत्र द्वे अल्पतरे - पट् चतस्रश्चेति । नत्रपडात्मके द्वे अवस्थित सत्कर्मणी, चतुष्प्रकृत्यात्मकस्य सत्तास्थानस्यैकसामयिकत्वेनावस्थितत्वासंभवात् । भूवस्कारमवक्तव्यं चात्र नास्ति, चतुरादिप्रकृतिसत्ताव्यवच्छेदे भूयः सतासंभवात् ।
For Private and Personal Use Only
डबल्य