SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir CREENDSOM उदीरणास्थानानि मूलप्रकृतीनां पञ्च । तथाहि-अष्टौ, सप्त, षट्, पञ्च द्वे चेति । अत्र त्रयो भूयस्काराः, तथाहि-उपशान्तमोहः पञ्चक| मोंदीरको भूत्वा प्रतिपतन सूक्ष्मसम्पराये समागतः षण्णामुदीरको भवति, ततोऽपि प्रतिपतन् प्रमत्तसंयतगुणस्थानादावागत आयुष्यावलिकाशेषे च सप्तानां, तत ऊर्ध्व परभवेऽष्टानां, द्विकोदीरकास्तु क्षीणमोहः सयोगिकेवली च, न चानयोरेकतरोऽपि प्रतिपततीत्येतदपे-10 क्षया भूयस्कारो न लभ्यते इति त्रय एव भूयस्काराः, चत्वारोऽल्पतराः, पञ्चावस्थिताः, अवक्तव्यस्त्वत्रापि नास्ति, सर्वमूलपकृत्यनु| दीरकस्यायोगिकेवलीनो भूयोऽप्युदीरकत्वाभावात् ।। ____ सत्तास्थानानि मूलप्रकृतीनां त्रीणि-अष्टौ सप्त चतस्रश्चेति । अत्रकोऽपि भूयस्कारो न संभवति, सप्तादिसत्ताकस्य क्षीगमोहादेः प्रतिपाताभावेनाष्टादिसत्ताकत्वासंभवात् , द्वावल्पतरौ, त्रयोऽवस्थिताः, अवक्तव्यस्त्वत्रापि नास्ति, क्षीणशेषकर्मणो भूयः कर्मसत्ताया | असंभवात् । ___ तदेवमुक्ता मूलप्रकृतीनां बन्धोदयोदीरणासत्तास्थानेषु भूयस्कारादयः, सम्प्रत्युत्तरप्रकृतीनां तेषु तेऽभिधातव्याः तत्र दर्शनावरणीयस्य त्रीणि बन्धस्थानानि-नव षट् चतस्रश्चेति । तत्र सर्वप्रकृतिसमुदायो नत्र, तद्वन्धश्चाद्यगुणस्थानद्वयं यावत्, | 24 ततः परं स्त्यानदित्रिकबन्धव्यवच्छेदे सम्यमिथ्यादृष्टयादिषु षद्विधं बध्नतः प्रथमसमये प्रथमोऽल्पतरबन्धः । एतत् पविध बन्धस्थानमपूर्वकरणप्रथमसप्तभागं यावत् , ततः परं निद्राप्रचलाबन्धव्यवच्छेदे चतुर्विधं बध्नत आद्यसमये द्वितीयोऽल्पतरबन्धः ।। एतच्चतुर्विधं बन्धस्थानं सूक्ष्मसम्परायं यावत् , ततः कस्यचित् प्रतिपत्य षड्विधं बध्नतः प्रथमसमये प्रथमो भूयस्कारबन्धः। ततोऽपि | घा प्रतिपत्य नवविधं बध्नत आद्यसमये द्वितीयो भूयस्कारबन्धः । अत्र नाविधादिषु त्रिधपि द्वितीयादिसमयेषु तदेव बध्नतस्त्रयोऽवस्थि- | For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy