SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्मप्रकृतिः ॥८५॥ दयः eaksCODDOGC षट् प्रकृतीबंध्नतः षट् , ताश्च सूक्ष्मसम्परायस्य । सप्त बध्नतां सप्त, ताश्च मिश्रापूर्वकरणानिवृत्तिवादराणां सदा, शेषाणां चायुबन्धाभावे। अष्टौ बध्नतामष्टौ, ताश्च मिश्रवर्जितमिथ्यादृष्ट्याद्यप्रमत्तसंयतान्तानामायुर्वन्धकाले द्रष्टव्याः । अत्र त्रयो भूयस्काराः, तथाहि-उपशा बंधस्थाने न्तमोहगुणस्थानके एका प्रकृति बद्धा ततः प्रतिपत्य सूक्ष्मसम्परायगुणस्थाने षद् प्रकृतीबंध्नतः प्रथमे समये भूयस्कारः, शेषकालं भूयस्कारा त्ववस्थितः, एष प्रथमो भूयस्कारः। ततोऽपि प्रतिपततोऽनिवृत्तिबादरसम्पराये सप्त बध्नतः प्रथमसमये द्वितीयो भूयस्कारः, शेषकालं स्ववस्थितः । सप्त बद्धाऽष्टौ प्रमत्तादिगुणस्थानेषु बध्नतः प्रथमसमये तृतीयो भूयस्कारः, शेषकालं त्ववस्थितः । तथा त्रयोऽल्पतराः, ते चैवम्-अष्ट बद्धा सप्त बध्नतः प्रथमे समयेऽल्पतरः, शेषकालं त्ववस्थितः, इत्येष प्रथमोऽल्पतरः । यदा तु सप्त बद्धा सूक्ष्मसम्पराय| गतः षट् वध्नाति तदा प्रथमसमये द्वितीयोऽल्पतरः, शेषकालं त्ववस्थितः । षद् बद्धोपशान्तमोहे क्षीणमोहे वैकां बध्नतः प्रथमसमये | | तृतीयोऽल्पतरः, शेषकालं त्ववस्थितः । तदेवं मूलप्रकृतिबन्धस्थानेषु त्रयो भूयस्कारास्त्रयोऽल्पतराश्चत्वारश्चावस्थिता बन्धाश्चतुर्वपि स्थानेष्ववस्थितस्य प्राप्यमाणत्वादिति सिद्धम् । अवक्तव्यबन्धस्तु मूलप्रकृतीनां न संभवति, सर्वमूलप्रकृत्यबन्धकस्यायोगिकेवलिनो भूयोऽपि बन्धकत्वाभावात् । उदयस्थानानि मूलप्रकृतीनां त्रीणि-अष्टौ सप्त चतस्रश्चेति । तत्राष्टानामुदयः सूक्ष्मसम्परायं यावत् , मोहोदयं विना सप्तानामुपशान्ते क्षीणमोहे वा, चतसृणां घातिवर्जानां केवलिनः, अक एवं भूयस्कारः। उपशान्तमोहे सप्तवेदको भूत्वा ततः प्रतिपाते भूयो| ऽप्यष्टौ वेदयत इति । चतुर्वेदकस्तु भूत्वा सप्ताष्टौ वा न वेदयते, चतुर्वेदकत्वस्य सयोग्यवस्थायां भावात् , ततश्च प्रतिपाताभावात्, तत || ॥८५॥ एक एवात्र भूयस्कारो, द्वावल्पतरौ, योऽवस्थिताः, अवक्तव्यस्तु नास्ति, सर्वकर्मावेदकस्य सिद्धस्य भूयोऽपि कर्मवेदकत्वासंभवात् । HORITERACC00 For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy