________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मप्रकृतिः ॥८६॥
SODE
GKOODNDRORE
तबन्धाः । यदा तूपशान्तमोहावस्थायां दर्शनावरणप्रकृतीनां सर्वथाऽबन्धको भूत्वा पुनरद्धाक्षयेण प्रतिपत्य चतुर्विधं बध्नाति तदाऽऽद्यसमये प्रथमोऽवक्तव्यवन्धः, भूयस्कारादिलक्षणैर्वक्तुमशक्यत्वात् , द्वितीयादिसमयेषु त्ववस्थितः । यदा तूपशान्तमोहावस्थात एवायु:- बंधस्थानेषु क्षयेणानुत्तरसुरेषूपपद्यते तदा तत्राद्यसमय एव षड्विधं बध्नतो द्वितीयोऽवक्तव्यः, द्वितीयादिसमयेषु त्ववस्थितः। तदेवमत्र द्वौ भूय
भूयस्कारास्कारौ, द्वावल्पतरौ बन्धौ, अवस्थितास्तु गणनया षट् भवतोऽपि बन्धस्थानानि त्रीण्येवेति तद्भेदात्रय एव, अवक्तव्यौ तु बन्धौ ।
दयः द्वाविति स्थितम् ।
मोहनीयस्य दश बन्धस्थानानि-द्वाविंशतिरेकविंशतिः सप्तदश त्रयोदश नव पञ्च चतस्रः तिस्रो द्वे एका च । तत्र द्वाविंशतिकं बन्धस्थानं मिथ्यादृष्टी, एकविंशतिक सासादने, सप्तदशकं मिश्रऽविरतसम्यग्दृष्टौ (च), त्रयोदशकं देशविरते, नवकं प्रमत्ताप्रमत्तयोरपूर्वकरणे च, पश्चादीन्येकपर्यन्तानि अनिवृत्तिवादरे प्रथमादिषु पश्चान्तेषु भागेषु । अत्र भूयस्कारा नव, ते चोपशमश्रेणितः प्रतिपाते | संज्वलनलोभरूपैकप्रकृतिबन्धादारभ्य क्रमेण वेदितव्याः। अल्पतरबन्धास्त्वष्टौ, यतो द्वाविंशतिबन्धादेकविंशतिबन्धे, एकविंशतिबन्धाद्वा सप्तदशबन्धे गमनं न संभवति, द्वाविंशतिबन्धकस्य मिथ्यादृष्टेरेकविंशतिबन्धकसासादनभावस्यानन्तर्येणाप्राप्तः, एकविंशतिबन्धकस्य च सासादनस्य नियमतो मिथ्यात्व एव गमनात् सप्तदशबन्धकमिश्राविरतसम्यग्दृष्टिभावालाभाद् । अवस्थितबन्धा दश "अवस्थितबन्धः सर्वत्रापि बन्धस्थानसम” इतिवचनात् । एकसप्तदशप्रकृत्यात्मको द्वाववक्तव्यबन्धौ । तौ चोपशान्तमोहगुणस्थानादद्धाक्षयेण | भवक्षयेण च प्रतिपाते भावनीयो ।
॥८६॥ नाम्नो बन्धस्थानान्यष्टौ । तथाहि-त्रयोविंशतिः पञ्चविंशतिः षड्विंशतिरष्टाविंशतिरेकोनविंशत्रिंशदेकत्रिंशदेका च । एतानि च नाना
For Private and Personal Use Only