________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ACTRONGEOGaDre
(मलय०)-तथा चाह-संभवतो'त्ति । 'संभवत:'-संभवमाश्रित्य स्थानानि प्रदेशसत्कर्मस्थानानि । 'करणेषु'-बन्धनादिषु उदये च। 'कर्मप्रदेशेभ्यः'-कर्मप्रदेशानधिकृत्य 'ज्ञेयानि'-ज्ञातव्यानि । कथमित्याह-एवमुपदर्शितेन, एतेन प्रागुक्तेन अनुमानेन-प्रकारेण ज्ञातव्यानि । तथाहि-बन्धनकरणे जघन्यं योगस्थानमादिं कृत्वा यावदुत्कृष्टयोगस्थानमेतावन्ति प्रदेशसत्कर्मस्थानानि बन्धमाश्रित्य | प्राप्यन्ते, तावन्ति चैकं स्पर्धकम् । एवं संक्रमणादिष्वपि प्रत्येकं यथायोगं भावनीयम् ॥५०॥ | (७०)-बन्धनादिकरणेष्वपि यथायोगमित्थंभूतस्पर्धकातिदेशमाह-एवमुपदर्शितेन, एतेन बुद्धिसमीपतरवर्तिनाऽनुमानेन प्रकारेण | संभवतः-संभवमाश्रित्य स्थानानि प्रदेशसत्कर्मस्थानानि करणेषु बन्धनादिषूदये च कर्मप्रदेशेभ्यः कर्मप्रदेशानधिकृत्य ज्ञेयानि-ज्ञातव्यानि । तथाहि-बन्धनकरणे जघन्ययोगस्थानादारभ्य यावदुत्कृष्टं योगस्थानं तावन्ति प्रदेशसत्कर्मस्थानानि बन्धमाश्रित्य प्राप्यन्ते, तावन्ति चैक स्पर्धक, एवं संक्रमादिष्वपि प्रत्येकं यथायोगं भावनीयम् ॥५०॥ ___ करणोदयसंताणं पगइठाणेसु सेसगतिगे य । भूयकारप्पयरो अवठिओ तह अवत्तव्यो ॥५१॥ __ (चू०)—'करणोदयसंताणं पगतिट्ठाणेसु'त्ति-अट्ट करणाणं उदयसंताणगपगतिट्ठाणेसु 'सेसतिविहे यत्ति| तेसिं चेव हितिअणुभागपदेसट्ठाणेसु य 'भूओगारप्पतरो अवहितो तह अवत्तव्वोत्ति ॥५१॥
(मलय०)-'करणोदयसंताणं'ति-अष्टानां करणानां उदयसत्तयोश्च प्रकृतिस्थानेषु 'सेसगतिगे यत्ति-शेषके च त्रिके स्थित्यनुभा| गप्रदेशरूपे प्रत्येकं चत्वारो विकल्पा ज्ञातव्याः, तद्यथा-भूयस्कारः, अल्पतरः, अवस्थितः, अवक्तव्यश्च ॥५१॥
(उ०)-अष्टानां करणानामुदयसत्तयोश्च प्रकृतिस्थानेषु शेषके च त्रिके स्थित्यनुभाग प्रदेशरूपे प्रत्येकं चत्वारो भेदा ज्ञातव्याः,
DISORDENGE
For Private and Personal Use Only