SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassaqarsuri Gyanmandir ति-अल्पकालं बद्धा मिथ्यात्वं गतः, ततः 'सुचिरं'ति-चिरोद्वलनया उद्बलयतः सतो यदा एका स्थितिर्द्विसमयमात्रावस्थाना शेषीभवति | तदा तस्स जघन्यं प्रदेशसत्कर्म ॥४३॥ (उ०)-मनुष्यद्विकमुच्चैर्गोत्रं च पूर्व सूक्ष्मत्रसेन क्षपितकर्माशेनोद्वलितं ततः सूक्ष्मेण-मूक्ष्मैकेन्द्रियेण पृथिव्यादिना सता क्षणमा न्तर्मुहूर्त्तकालं यावद्भूयोऽपि बद्धं, ततः सूक्ष्मत्रसेषु तेजोवायुषु मध्ये समुत्पन्नस्तत्र च चिरोद्वलनया मनुष्यद्विकोच्चैर्गोत्रे उद्वलयितुं लग्नः, उद्वलयतश्च तयोर्यदैका स्थितिर्द्विसमयमात्राऽवशिष्यते तदा तयोः सूक्ष्मक्षणबद्धयोर्जघन्यं प्रदेशसत्कर्म । तथा तीर्थकरनामाल्पा-1Y दमल्पकालं चतुरशीतिवर्षसहस्राणि सातिरेकाणि यावद्वद्धा यः केवली जातः, ततः सुचिरमतिप्रभूतं कालं देशोनपूर्वकोटिरूपं यावकेवलिपर्यायं परिपाल्यायोगिकेवलिभावे वर्तमानस्य क्षपितकमांशस्य चरमसमये तीर्थकरनाम्नो जघन्यं प्रदेशसत्कर्म । अन्ये त्वाहु:तीर्थकरनाम्नः क्षपितकर्माशेन तत्प्रायोग्यजघन्ययोगिना सता प्रथमसमये बद्धा या लता सा जघन्यं प्रदेशसत्कर्म । आहारकतनुरित्या हारकसप्तकं तदल्पकालं बद्धा मिथ्यात्वं गतस्य सुचिरमिति चिरोद्वलनयोद्वलयतः सतो यदैका स्थितिर्बिसमयमात्रावस्थाना शेषीभवति | तदा तस्य जघन्यं प्रदेशसत्कर्म प्राप्यते ॥४३॥ इयाणिं पदेससंतवाणविगप्पणिरूवणत्थं भण्णतिचरमावलियपविद्रा गुणसेढी जासिमत्थिन य उदओ। आवलिगासमयसमा तार्सिखल फडगाइंतु ॥४४ (चू०) 'चरिमावलिय'त्ति-अंतिमावलिगा तं पविट्ठा गुणसेढी जेसि कम्माणं अत्थि ‘ण य उदओ उदओ वि | णत्थि। आवलियासमयसम'त्ति-आवलियाए जत्तिया समया तत्तिया 'तासिं खलु फडगाइं तु'त्ति-तेसिं कम्माणं PHONESSONGS DRONEEDS For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy