SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (उ०) तदेवमुक्तं जघन्यप्रदेशसत्कर्मस्वामित्वं, अथ प्रदेशसत्कर्मस्थानप्ररूपणां चिकीर्षुः स्पर्धकारूपणामाह-चरमा सर्वान्तिमा * कर्मप्रकृतिः | या क्षपणकाले आवलिका तां प्रविष्टा गुणश्रेणिर्यासां प्रकृतीनामस्ति, न चोदयः, तासां स्त्यानचित्रिकमिथ्यात्वप्रथमद्वादशकषायनरक- सत्ता द्विकतिर्यग्द्विकाद्यजातिचतुष्टयातपोद्योतस्थावरसूक्ष्मसाधारणरूपाणामेकोनत्रिंशत्संख्यानामावलिकायां यावन्तः समयास्तत्समान्येव खलु प्रदेशसत्क॥६८॥ | स्पर्धकानि भवन्ति । तुरेवकारार्थः । स्खलुक्यालङ्कारे । अयमिह भावार्थः-अभव्यप्रायोग्यजघन्यप्रदेशसत्कर्मयुक्तस्त्रसेषु मध्ये समुत्पद्य | |मस्थान प्ररूपणा तत्र देशविरतिं सर्वविरतिं वाऽनेकवारं लब्ध्वा चतुरो वारान्मोहनीयमुपशमय्य भूयोऽप्येकेन्द्रियेषु मध्ये समुत्पद्य तत्र च पल्योपमासंख्येयभागमानं कालं यावस्थित्वा ततो मनुष्येषु मध्ये समुत्पन्नः सन् यः शीघ्रं क्षपणार्थमभ्युद्यतस्तस्य चरमे स्थितिखण्डकेऽपगते | | सति चरिमावलिकायां स्तिबुकसंक्रमेण क्षीयमाणायां यावदेका स्थितिबिसमयमात्रा शेषीभवति तदा सर्वजघन्यं यत्प्रदेशसत्कर्म तत्प्र१५ थमं प्रदेशसत्कर्मस्थानं, तत एकपरमाणुप्रक्षेपे द्वितीयं, द्विपरमाणुप्रक्षेपे तृतीयं, एवं यथोत्तरमेकैकपरमाणुप्रक्षेपेण नानाजीवापेक्षया| नन्तानि प्रदेशसत्कर्मस्थानानि वाच्यानि, यावत्तस्मिन्नेव चरमे स्थितिविशेषे गुणितकाशस्योत्कृष्टं प्रदेशसत्कर्मस्थानं भवति । तदूर्ध्वमन्यत्प्रदेशसत्कर्मस्थानं न प्राप्यत इतीदमेकं स्पर्धकम् । इदं तु चरमस्थितिमधिकृत्यैकस्थितिकं स्पर्धकम् । एवं द्वयोश्चरमस्थित्योः शेषीभूतयोदिस्थितिक द्वितीयं स्पर्धकं वक्तव्यं, तिसृषु च स्थितिषु त्रिस्थिकं तृतीयं, एवं तावद्वाच्यं यावत्समयोनावलिकासमयप्रमाणानि स्पर्धकानि भवन्ति । अत्र समयोनावलिकाप्रमाणं स्पर्धकं सर्वोत्कृष्टं, एकस्थितिकं सर्वजघन्यं, द्वित्रादिकासु च स्थितिषु शेषीभूतासु मध्यममिति विवेकः । तथा चरमस्थितिघातस्य चरमप्रक्षेपमादिं कृत्वा पश्चानुपूर्ध्या यथोत्तरं वृद्धानि प्रदेशसत्कर्मस्थानानि तावद्वाच्यानि 21 ॥६॥ यावन्निजनिजमुत्कृष्टप्रदेशसत्कर्म । तत एतावदप्येतनिखिलस्थितिगतं यथास्वमुक्तप्रकृतीनामेकं स्पर्धकं विवक्ष्यते । तत एतेन स्पर्ध DISEDICERCEROENGC For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy