________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
AREERSODSOL
परिशटन्तीति सातबहुलग्रहणम् , ततोऽचिराद्वन्धान्त इति, उत्पत्तिसमयादूर्ध्वमन्तर्मुहूर्त्तमात्रमेव स्थित्वा मर्तुकामस्य जातस्य सत उत्कृष्टया बन्धाद्धयोत्कृष्टैश्च योगैरन्यत्पारभविकं समानजातीयं मनुष्यस्य सतो मनुष्यायुस्तिरश्चः सतस्तिर्यगायुर्वघ्नतो बन्धान्तसमय इत्यर्थः, यावन्नावाप्यपवर्त्तयति तावत्तस्य सातबहुलस्य मनुष्यस्य सतो मनुष्यायुषस्तिरश्चः सतस्तियगायुष उत्कृष्टं प्रदेशसत्कर्म भवति । यतस्तस्य सातबाहुल्येन निर्जीर्णाल्पप्रदेशान्तर्मुहूत्तॊनस्वभवायुः सर्व परभवायुश्च समानजातीयं परिपूर्णदलिकमस्तीति मिलितप्रदेशबाहुल्यं लभ्यते । बन्धानन्तरं चायुर्वेद्यमानं द्वितीयसमयेऽपवर्तयिष्यतीत्यत उक्तं बन्धान्त इति ॥३३॥
पूरितु पुव्वकोडीपुहत्त नारयदुगस्स बंधते । एवं पल्लतिगंते वेउब्वियसेसणवगम्मि ॥३४॥ (चू०)-'पुरित्तु पुन्चकोडीपुहुत्तंति-सत्तपुवकोडीओ णिरयगतिनिरयाणुपुब्बीतो बंधिउं संकिलेसबहुलत्तणेण 'णारगदुगस्स बंधतेत्ति-णिरयाभिमुहस्स से काले णेरतितो होति तंमि समते उक्कोसं पदेससंतं । 'एवं पल्लतिगंतेत्ति-एवमिति पुवुत्तं दरिसेति, सत्तपुब्धकोडीतो देवदुगे वेउब्वियसत्तगाति पूरेत्तु-ततो पलिओवमहितितेसु भोगभूमिगेसु उप्पन्नो, तत्थ तिन्नि पलिओवमाणि एतेणेव पूरेन्तु से काले देवो भविस्सतित्ति संगते | वेउब्वियसेसणवगाणं उक्कोसं पदेससंतं भवति । सेसग्गहणं निरयदुगपडिसेहणत्थं ॥३४॥ ___(मलय०)-'पूरित्तुति । पूर्वकोटिपृथक्त्वं' पूर्वकोटिसप्तकं यावत् संक्लिष्टाध्यवसायवशेन 'नरकद्विकं नरकगतिनरकानुपूर्वीलक्षणं भूयो भूय आपूर्य बन्धेन निचितं कृत्वा नरकाभिमुखो बन्धान्तसमये नरकद्विकस्योत्कृष्ट प्रदेशसत्कर्मस्वामी । तथा एवमनेनैव मकारेण पूर्वकोटिपृथक्त्वं यावत् भोगभूमिषु मध्ये पल्योपमत्रयं च यावद्विशुद्धाध्यवसायवशेन वैक्रियैकादशकात् नरकद्विकेऽपनीते शेष यद
For Private and Personal Use Only