SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir साद्यध्रुवं च । ततोऽन्यत्सर्वमजघन्यम् । तदपि चापूर्वकरणप्रथमसमये गुणसंक्रमेण प्रभूतस्य दलिकस्य प्राप्यमाणत्वात् अजघन्य भवत् सादि, तत्स्थानमप्राप्तस्य पुनरनादि ध्रुवाभ्रुवता पूर्ववत् । ' अभासियं दुविहं' ति अभाषितमनुक्तं सर्वासां प्रकृतीनां 'द्विविधं' - द्विप्रकारमवगन्तव्यम् । तद्यथा - साद्यध्रुवं च । तत्र द्विचत्वारिंशत्प्रकृतीनामभाषितं जघन्यमजघन्यमुत्कृष्टं च । तत्रोत्कृष्टं द्विप्रकारं भावितमेव । जघन्याजघन्यता च वक्ष्यमाणं स्वामित्वमवलोक्य स्वयमेव भावनीया । ध्रुवसत्कर्मणां च चतुर्विंशतिशतसंख्या| नामभाषितमुत्कृष्टमनुत्कृष्टं जघन्यं च । तत्र जघन्यं भावितमेव । उत्कृष्टानुत्कृष्टे मिथ्यादृष्टौ गुणितकर्माशे प्राप्येते । ततो द्वे अपि | साद्यध्रुवे । एवमनन्तानुबन्धिसंज्वलनलो भयशः कीर्तीनामपि उत्कृष्टानुत्कृष्टे भावनीये । जघन्यं तु भावितमेव । शेषाणां चाध्रुवसत्कर्मणां | चत्वारोऽपि विकल्पाः साद्यध्रुवा अध्रुवसत्कर्मत्वादवसेयाः ||२६|| I ( उ० ) – अथोत्तरप्रकृतीरधिकृत्य साधनादिप्ररूपणां कुर्वन्नाह - सातवेदनीयसंज्वलनचतुष्टय पुरुषवेदपञ्चेन्द्रियजातितैजस सप्तकाद्यसंस्थानाद्यसंहननशुभवर्णाद्येकादशकागुरुलघुपराघातोच्छ्वासप्रशस्तविहायोगतित्र सदशक निर्माणरूपाणां द्विचत्वारिंशत्प्रकृतीनामनुत्कृष्टं प्र | देशसत्कर्म चतुर्विधं-साद्यनादिधुवाधुत्रभेदात् । तथाहि आद्यसंहननवर्जानां शेषाणामेकचत्वारिंशत्प्रकृतीनां क्षपकश्रेण्यां स्वस्वबन्धान्तसमये गुणितकर्माशस्योत्कृष्टं प्रदेशसत्कर्म, तच्चैकसामयिकत्वात्साद्यध्रुवं ततोऽन्यत्सर्वमनुत्कृष्टं तदपि च द्वितीयसमये भवत्सादि, तत्स्थानमप्राप्तस्यानादि, धुवाधुवे प्राग्वत् । आद्यसंहननस्य तु सप्तमावनौ सम्यग्दृष्टेर्नारकस्य मिथ्यात्वं यियासोरुत्कृष्टं प्रदेशसत्कर्म, तच्च साद्यधुवं, ततोऽन्यदनुत्कृष्टं तदपि द्वितीयसमये भवत्सादि, तत्स्थानमप्राप्तस्यानादि, धुवाधुवे प्राग्वत् । तथाऽनन्तानुबन्धियशःकीर्त्तिसंज्वलन लोभवर्जितानां चतुर्विंशत्यधिकशतसंख्यानां ध्रुवसत्कर्मप्रकृतीनामजघन्यं प्रदेशसत्कर्म त्रिविधं, अनादिधुवाध्रुव भेदात् । For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy