________________
Shri Mahavir Jain Aradhana Kendra
कर्मप्रकृतिः
॥५५॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जातितैजस सप्तकप्रथम संस्थानप्रथम संहननशुभवर्णाद्येकादशकागुरुलघुपराघातोच्छ्वास प्रशस्त विहायोग तित्रस बादरपर्याप्तप्रत्येक स्थिरशुभसुभगसुस्वरादेय यशः कीर्ति निर्माणरूपाणां द्विचत्वारिंशत्प्रकृतीनामनुत्कृष्टं प्रदेशसत्कर्म चतुर्विधम् । तद्यथा - साद्यनादि ध्रुवम | तद्यथा-वज्रर्षभनाराचवर्जानां शेषाणामेकचत्वारिंशत्प्रकृतीनां क्षपकश्रेण्यां स्वस्वबन्धान्तसमये गुणितकर्माशस्योत्कृष्टं प्रदेशसत्कर्म | भवति, तच्चैकसामयिकमिति कृत्वा साद्यध्रुवम् । ततोऽन्यत्सर्वमनुत्कृष्टम् । तदपि च द्वितीये समये भवत्सादि । तत्स्थानमप्रापस्य पुनरनादि, ध्रुवाधुवे पूर्ववत् । वज्रर्षभनाराचसंहननस्य तु सप्तमपृथिव्यां सम्यग्दृष्टेर्नारकस्य मिथ्यात्वं गन्तुकामस्योत्कृष्टं प्रदेशसत्कर्म, त साद्यध्रुवम्, ततोऽन्यदनुत्कृष्टम्, तदपि च द्वितीये समये भवत् सादि, तत्स्थानमप्राप्तस्य पुनरनादि, ध्रुवाधुवे पूर्ववत् । अनन्तानुचन्धियशः कीर्तिसंज्वलनलोभवर्जितानां चतुर्विंशत्यधिकशतसंख्यानां ध्रुवसत्कर्मप्रकृतीनामजघन्यं प्रदेशसत्कर्म त्रिविधम् । तद्यथा| अनादि ध्रुवमध्रुवं च । तथाहि - एतासां क्षपितकर्माशस्य स्वस्वक्षयचरमसमये जघन्यं प्रदेशसत्कर्म, तचैकसामयिकमिति कृत्वा साद्यध्रुवं च । ततोऽन्यदजघन्यम्, तच्चानादि, सदैव सद्भावात् । ध्रुवाधुवता पूर्ववत् । 'चउ तिविहं'ति यथासंख्येन योजनीयम्, द्विचत्वारिंशत्प्रकृतीनामनुत्कृष्टं चतुर्विधम्, ध्रुवसत्कर्मणां चाजघन्यं त्रिविधमिति । तथाऽनन्तानुबन्धिचतुष्टयसंज्वलनलो भयशः कीर्तिरूपाणां षण्णां प्रकृतीनामजघन्यं प्रदेशसत्कर्म चतुविधम् । तद्यथा - साद्यनादि ध्रुवमधुवं च । तथाहि - अनन्तानुबन्धिनामुलके क्षपितकर्मा शे यदा शेषीभूता एका स्थितिर्भवति तदा जघन्यं प्रदेशसत्कर्म । तचैकसामयिकमिति कृत्वा साद्यध्रुवं च । ततोऽन्यत्सर्वमजघन्यम् । तच्चोद्वलितानां मिथ्यात्वप्रत्ययेन भूयोऽपि बध्यमानानां सादि, तत्स्थानमप्राप्तस्य पुनरनादि, ध्रुवाधुवे पूर्ववत् । यशः कीर्तिसंज्वलनलोभयोः पुनः क्षपितकर्माशस्य क्षपणायोद्यतस्य यथाप्रवृत्तिकरणस्यान्तिमसमये जघन्यं प्रदेशसत्कर्म । तचैकसामयिकमिति कृत्वा
For Private and Personal Use Only
and 52
सत्ता प्रदेशसत्क
र्मणिसाद्य
नादिप्ररू
पणा
॥५५॥