________________
Shri Mahavir Jain Aradhana Kendra
Sans
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तानि हतोत्पत्तिकान्युच्यन्ते । हतात् घातात् पूर्वावस्थाविनाशरूपादुत्पत्तिर्येषां तानि हतोत्पत्तिकानि । तानि च पूर्वेभ्योऽसंख्येयगुणानि, एकैकस्मिन् बन्धोत्पत्ति के स्थाने नानाजीवापेक्षया उद्वर्त नापवर्तनाभ्याम संख्येय भेदकरणात् । यानि पुनः स्थितिघातेन रसघातेन चान्यथाऽन्यथाभवनादनुभागस्थानानि जायन्ते तानि च हतहतोत्पत्तिकान्युच्यन्ते । हते उद्वर्तनापवर्तनाभ्यां घाते सति भूयोऽपि हतात् स्थितिघातेन रसघातेन वा घातादुत्पत्तिर्येषां तानि हतहतोत्पत्तिकानि । तानि चोद्वर्तनापवर्तनाजन्येभ्यो ऽसंख्येयगुणानि । संप्रत्यक्षरयोजना क्रियते यानि उदयत उदीरणातश्च प्रतिसमयं क्षयसंभवात् अन्यथाऽन्यथानुभागस्थानानि जायन्ते तानि वर्जयित्वा शेषाणि बन्धोत्पत्ति| कादीनि अनुभागस्थानानि क्रमशोऽसंख्येयगुणानि वक्तव्यानि । उदयोदीरणाजन्यानि कस्माद्वर्ण्यन्त इति चेद्, उच्यते - यस्मादुदयो| दीरणयोः प्रवर्तमानयोर्नियमात् बन्धोद्वर्तनापवर्तनास्थितिघातरसघातजन्यानामन्यत मान्यवश्यं संभवन्ति, तत उदयोदीरणाजन्यानि तत्रैवान्तः प्रविशन्तीति न पृथक् क्रियन्ते ||२४||
(उ० ) – सम्प्रत्यनुभागसत्कर्मस्थानभेदप्ररूपणार्थमाह- इहानुभागस्थानानि त्रिधा - बन्धोत्पत्तिकानि हतोत्पत्तिकानि हतहतोत्पत्तिकानि चेति । तत्र बन्धादुत्पत्तिर्येषां तानि बन्धोत्पत्तिकानि तानि चासंख्येय लोक काश प्रदेशप्रमाणानि तद्धेतूनामध्यवसायानामसं|ख्येय लोकाकाशप्रदेशप्रमाणत्वात् । तथोद्वर्त्तनापवर्त्तनाकरणवशतोऽन्यथाऽन्यथापरिणामेन यान्यनुभागस्थानानि वैचित्र्यभाजि भवन्ति तानि हतोत्पत्तिकानीत्युच्यन्ते, हतात्पूर्वावस्थाविनाशरूपाद् घातादुत्पत्तिर्येषां तानि हतोत्पत्तिकानीति व्युत्पत्तेः तानि च पूर्वेभ्योऽसंख्येयगुणानि, एकैकस्मिन् बन्धोत्पत्तिके स्थाने नानाजीवापेक्षयोद्वर्त्तनापवर्त्तनाभ्यामसंख्येयभेदकरणात् । यानि तु स्थितिघावेन रसघातेन वाऽन्यथात्वमापादितानि विलक्षणान्यनुभागस्थानानि जायन्ते तानि च हतहतोत्पत्तिकान्युच्यन्ते, हते उद्वर्त्तनापवर्त्तना कृतघाते
For Private and Personal Use Only