________________
Shri Mahavir Jain Aradhana Kendra
कर्मप्रकृतिः
॥५६॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| तथाहि एतासां क्षपितकर्माशस्य स्वस्वक्षय चरमसमये जघन्यं प्रदेशसत्कर्म प्राप्यते तच्चैकसामयिकमिति साद्यध्रुवं ततोऽन्यदजघन्यं, तच्चानादि, सदैव भावात्, ध्रुवाधुवता प्राग्वत् । 'चउ तिविहं' ति - द्विचत्वारिंशतोऽनुत्कृष्टं चतुर्विधं, चतुर्विंशशतध्रुवसत्कर्मणां चाजघन्यं त्रिविधमिति यथासंख्येन योजनीयम् । तथाऽनन्तानुबन्धिचतुष्टयसंज्वलनलो भयशः कीर्त्तिरूपाणां षण्णां प्रकृतीनामजघन्यं प्रदेशसत्कर्म चतुर्विधं, साद्यनादिधुवाध्रुव भेदात् । तथाहि - अनन्तानुबन्धिनामुद्रल के क्षपितकर्माशे यदा शेषीभूतैका स्थितिर्भवति तदा जघन्यं प्रदेशसत्कर्म, तचैकसामयिकमिति साद्यध्रुवं ततोऽन्यत्सर्वमजघन्यं तच्चोद्वलितानां तेषां मिथ्यात्वप्रत्ययाद्भूयोऽपि बध्यमानतया सादि, तत्स्थानमप्राप्तस्यानादि, ध्रुवाधुवे प्राग्वत्, यशः कीर्त्तिसंज्वलनलो भयोस्तु क्षतिकर्माशस्य क्षपणायोत्थितस्य यथाप्रवृत्तकरणस्यान्तिमसमये जघन्यं प्रदेशसत्कर्म, तच्चैकसामयिकत्वात्साद्यध्रुवं ततोऽन्यत्सर्वमजघन्यं, तदपि चापूर्वकरण गुणस्थानप्रथमसमये गुणसंक्रमेण प्रभूतदलिकोपनयनादजघन्यं भवत्सादि, तत्स्थानमप्राप्तस्यानादि, ध्रुवा ध्रुवता प्राग्वत् । अभाषितमनुक्तं सर्वासामपि प्रकृतीनां द्विविधं साद्यध्रुवं चेति। तत्र द्विचत्वारिंशत्प्रकृतीनामभाषितं जघन्यमजघन्यमुत्कृष्टं च । तत्रोत्कृष्टं द्विविधमनुत्कृष्टप्रसङ्गे भावित - मेव, जघन्यमजघन्यं च वक्ष्यमाणं स्वामित्वं मनसिकृत्य स्वयमेव भावनीयम् । चतुर्विंशतिशतसंख्यानामभाषितमुत्कृष्टमनुत्कृष्टं जघन्यं च । तत्र जघन्य मजघन्यप्रसङ्गे भावितमेव, उत्कृष्टानुत्कृष्टे च गुणितकर्माशे मिथ्यादृष्टौ प्राप्येते इत्येते अपि साद्यध्रुवे । एवमनन्तानुबन्धिसंज्वलन लोभयशः कीर्त्तीनामप्युत्कृष्टानुत्कृष्टे भावनीये, जघन्यं तु भावितमेव । शेषाणां चाधुवसत्कर्मणां चत्वारोऽपि भेदा अध्रुवसत्कर्मत्वादेव साद्यध्रुवाः ॥ २६ ॥
या सातियणादिपरूवणा । इयाणि सामित्तं भण्णति । तं दुविहं-उकोसपदेस संतसामित्तं जहण्णपदेस
For Private and Personal Use Only
Ahaka 2
सत्ता
प्रदेशसत्क
र्मणिसाद्य
नादिप्ररू
पणा
॥५६॥