________________
Shri Mahavir Jain Aradhana Kendr
Naksha
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सामी वि ॥ २३॥
( मलय ० ) — अत्रैव विशेषमाह – 'मइसुय' ति । मतिज्ञानावरणश्रुतज्ञानावरणचक्षुर्दर्शनावरणाचक्षुर्दर्शनावरणानां 'श्रुतसमाप्तस्य'| सकलश्रुतपारगामिनश्चतुर्दशपूर्वधरस्येत्यर्थः । 'ज्येष्ठलब्धिकस्य' - उत्कृष्टायां श्रुतार्थलब्धौ वर्तमानस्य जघन्यमनुभागसत्कर्म । इदमत्र तात्पर्यम् - मतिज्ञानावरणादीनां चतसृणां प्रकृतीनामुत्कृष्टश्रुतार्थसंपन्नश्चतुर्दशपूर्वधरो जघन्यानुभाग सत्कर्मस्वामी वेदितव्यः । तथा परमावधिज्ञानिनोऽवधिद्विकम् - अवधिज्ञानावरणावधिदर्शनावरणरूपं जघन्यानुभागसत्कर्म भवति । एतदुक्तं भवति-अवधिज्ञानावरणाव धिदर्शनावरणयोर्जघन्यानुभागसत्कर्मस्वामी परमावधियुक्तो वेदितव्यः । तथा 'मनोज्ञानं' - मनः पर्याय ज्ञानावरणं जघन्यानुभागसत्कर्म | विपुलमनःपर्यायज्ञानिनोऽवगन्तव्यम् । स्वामित्वभावनाऽवधिज्ञानावरणवत् । लब्धिसहितस्य हि प्रभूतोऽनुभागः प्रलयमुपयातीति परमोहिस्सेत्याद्युक्तम् । शेषाणां तु प्रकृतीनां य एव जघन्यानुभागसंक्रमस्वामिनस्त एव जघन्यानुभाग सत्कर्मणोऽपि द्रष्टव्याः॥२३॥ (उ०)—अत्रैव विशेषमाह-मतिज्ञानावरणश्रुतज्ञानावरणचक्षुर्दर्शनावरणाचक्षुर्दर्शनावरणानां श्रुतसमाप्तस्य सर्वाक्षरसन्निपातिनश्चतुर्दशपूर्वधरस्य ज्येष्ठलब्धिकस्योत्कृष्टायां श्रुतज्ञानलब्धौ वर्तमानस्य जघन्यमनुभागसत्कर्म, मतिज्ञानावरणादीनां सर्वोत्कृष्टश्रुतज्ञानलब्धि| सम्पन्नश्चतुर्दशपूर्वविजघन्यानुभाग सत्कर्मस्वामी वेदितव्य इत्यर्थः । तथा परमावधिज्ञानिनोऽवधिद्विकमवधिज्ञानावरणावधिदर्शनावरणरूपं जघन्यानुभागसत्कर्म भवति, अवधिज्ञानावरणावधिदर्शनावरणयोर्जवन्यानुभागसत्कर्मस्वामी परमावधिसम्पन्नो ज्ञेय इत्यर्थः । तथा मनोज्ञानं विपुलज्ञानिनः - मनः पर्यायज्ञानावरणस्य जघन्यानुभागसत्कर्मस्वामी विपुलमतिलब्धिसम्पन्नो ज्ञेय इत्यर्थः । लब्धिसहितस्य प्रभूतोऽनुभागः प्रलयमुपयातीति परमोहिस्सेत्याद्युक्तम् ||२३||
For Private and Personal Use Only