________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८४
ज्योतिर्विज्ञानशब्दकोषः ऊननवतिप०-नवनवतिः, एकाद् ऊनवतिः, एकाननवतिः, एकोननवतिः, नवनवतिः (स्त्री०)।
नवतिप०-एकाधिकोननवतिः, नवतिः, नवतिका, नवती (स्त्री०)। दशनवकम्, नवदशकम्, अष्टादशपञ्चकम् (त्रि०), नवदशत परिमाणमस्य।
एकनवतिप०-एकनवतिः, एकाधिकनवति: (स्त्री)। द्विनवतिप०-द्वानवतिः, द्विनवतिः, द्वयधिकनवतिः (स्त्री)। त्रिनवतिप०-त्रयोनवति:, त्रिनवतिः, त्र्यधिकनवतिः (स्त्री०)। चतुर्णवतिप०-चतुर्णवति:, चतुरधिकनवतिः (स्त्री०)। पञ्चनवतिप०-पञ्चनवतिः, पञ्चाधिकनवतिः (स्त्री०) ऊनविंशत्पञ्चकम् (त्रि०)।
षण्णवतिप०-षण्णवतिः, षडधिकनवतिः (स्त्री०), दन्तत्रिकम्, द्वादशाष्टकम्, रदत्रितयम् (त्रि०)।
सप्तनवतिप०-सप्तनवतिः, सप्ताधिकनवति: (स्त्री०)। अष्टनवतिप०-अष्टनवतिः, अष्टानवतिः, अष्टाधिकनवतिः (स्त्री०)।
एकोनशतप०-ऊनशतम्, एकाद् ऊनशतम्, एकानशतम्, एकोनशतम्, एकादशनवकम् (त्रि०) नवनवतिप०(स्त्री०), देवत्रयम्, सुमनस्त्रितयम् (त्रि०)।
शतप०-शतम् (न०), दशतिः (स्त्री०), दशदशकम् (त्रि०), दशदशतः परिमाणमस्य।
शतवाचकशब्दाः-इन्द्रयज्ञाः, दशकृति:, दशवर्गः, धृतराष्ट्रपुत्राः, पद्मदलानि, पुरुषायूंषि, रावणाङ्गुल्यः, शतभिषक्तारकाश्चैते शतवाचकाः शब्दाः।
विंशत्युत्तरशतद्वयस्य षट्त्रिंशदुत्तरशतद्वयस्य वा पर्यायः-महाराजिका: (पुं०ब०)।
षष्ट्युत्तरशतत्रयपर्यायाः-भगणभागाः, भगणलवा:, भगणांशका:, भगणांशाः, भचक्रभागाः, भचक्रलवा: भचक्रांशकाः, भचक्रांशाः।
सहस्रप०-सहस्रम्, दशशतम्, दशघ्नशतम् (त्रि०)।।
सहस्रवाचकशब्दाः-अनन्तशीर्षाः, अर्जुनहस्ता:, इन्द्रचक्षूषि, जाह्नवीपथा:, पद्मदलानि, भागीरथीवक्त्राणि, रविकराः, रविबाणा:, वेदशाखाश्चैते सहस्रवाचका: शब्दाः सन्ति।
द्विशतपर्याया:-द्विशतम्, शतद्वयम्, शतयुगम् (न०)। त्रिशतप०-त्रिशतम्, शतत्रयम् (न०)। द्विसहस्रप०-द्विसहस्रम्, सहस्रद्वयम् (न०)।
अयुतप०-अयुतम् (न०), दशसहस्राणि (न०ब०)। पूर्णार्थकैकप०-आदिम: (पुं०),आदिमा (स्त्री०), आदिमम् (न०), आद्य: (पुं०), आद्या (स्त्री०), आद्यम् (न०), 'प्रथमः (पुं०), प्रथमा (स्त्री), प्रथमम् (न०), प्रथमा = प्रतिपदा तिथिविशेषः।
पूर्णार्थकद्विप०--'द्वितीय: (त्रि०), द्वितीया (स्त्री०), ति०वि०।
-
(१) 'पहिला = पहिली' इति भाषा। (२) दूसरा = दूसरी इति भाषा।
For Private and Personal Use Only