________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७२
ज्योतिर्विज्ञानशब्दकोषः णनम् (न.), परिगणना (स्त्री.) परिगणितम् (न.), संख्या (स्त्री), संख्यानम् (न.)।
अङ्कगणितभेदौ–(१) व्यक्तगणितम् (पाटी-गणितम्), (२) अव्यक्तगणितम् (बीजगणितं रेखागणितं च), इत्येतौ अङ्कगणितस्य द्वौ भेदौ, स्याताम्।
गणितपर्यायाः-कृतसंख्यकम्, गणित:, परिगणितः, संख्यान:, संख्यावत् (मतु.) ! एते त्रिलिङ्गाः स्युः।
संख्येय (गण्य) प०-गणनीयः, गणितव्यः, गणेयः, गण्यः, परिगणनीयः, परिगणितव्यः, परिगण्यः, संख्यातुमर्हः, संख्यातुं योग्य:, संख्यायोग्य:, संख्येयः। एते त्रिलिङ्गाः स्युः।
संख्येयम् = द्रव्यम्, 'अत्राहामरसिंह:...............संख्या, संख्येये ह्यादश त्रिषु। विंशत्याद्याः सदैकत्वे सर्वा: संख्येयसंख्ययोः १/२, ९, ८३। संख्यार्थे द्विबहुत्वे स्त-स्तास्तु चानवते: स्त्रियः। पंक्तेः शतसहस्रादि क्रमाद्दशगुणोत्तरम्। २, ९, ८४ इति।
अस्यार्थ:
आदश दशशब्दमभिवाप्य। आङ्मर्यादाभिविध्योरित्यव्ययीभावः। 'नपुंसकादन्यत्रस्याम्' इति पक्षे टच न। एकादिका नवदशपर्य्यन्ता: संख्या: संख्येये त्रिलिङ्गा च। तेन संख्यासंख्येययोः समानाधिकरण्येन वृत्तिः। यथा-एक: पट:। एका शाटी। एकं वस्त्रम्। हि शब्दोऽवधारणे, संख्येय एव, न तु संख्यायामित्यर्थः। तेन एको विप्र इत्यादि भवति न तु विप्रस्यैक इत्यादि।' 'किन्तु' 'द्वयेकयोर्द्विवचनैकवचन' इति सूत्रे व्येकयोरितिनिर्देशात् संख्यामात्रेऽपि सम्भवः। तेन घटानां पञ्चेत्यपि स्यादिति सुभूतिः। 'वार्ताकुरेषा गुणसप्तयुक्ते'ति वैद्यकं च सङ्गच्छते। विंशतिराद्या या शतान्ता: संख्याः, संख्येयसंख्ययोर्वर्तन्ते, एकवचनान्ताश्च, यथा-विंशतिर्गावः, गवां विशंतिः। विंशत्यादीनां यदा संख्यार्थस्तदा द्विवचनबहुवचनेऽपि स्तः। यथा-वे विंशति गाव:, गवां वा तिस्रो विंशतय इति। तासु विंशत्या नवतिमभिव्याप्य स्त्रीलिङ्गाः। भिन्नलिङ्गेनापि समानाधिकरण्ये स्त्रीलिङ्गाः। यथा-विंशत्या पुरुषैः कृतम्। विशंति: कुण्डानीति। इति सुखानन्दनाथः। श.चिं. २-६८५। १-६८६।
भाष्येऽपि
‘आदशभ्य: संख्या संख्येये वर्तते। ऊर्ध्वं संख्याने संख्येये च' इति। विशंति: पटाः। विंशतिः पटानाम्। शतं गावः॥ शतं गवाम् - इति क्षीरस्वामी। विंशत्याद्यास्तु संख्याशब्दा एकत्वे वर्तमाना: संख्येये संख्याने च वर्तन्ते। यथा-विंशतिर्घटां, विशतिर्घटानाम्। शतं गाव:, शतं गवाम् ' इति। यदाह वाचस्पति:-'ऊनविंशत्यादिकास्तु सर्वाः संख्येयसंख्ययोः' इति-इति हेमचन्द्राचार्यः। पंक्तेर्दशगुणोत्तरं क्रमात् शतसहस्रादि विज्ञेयम्। यथा-एकं दशगुणितं पंक्तिरुच्यते, दशपंक्तयः शतम्, दशशतानि सहस्रम्, दशसहस्राण्ययुतमित्यादि ज्ञेयम्। अ. सु. व्या. टि. ८३-३२९।
यथा हि लीलावत्याम्
For Private and Personal Use Only