________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणनादिसर्गः (अन्) (त्रि. ब.), (८) अष्ट (अन्) (त्रि. ब.)। (९) नव (अन्) (त्रि. ब.) इत्येतेऽङ्कानां नवभेदा: सन्ति।
संख्याप०-संख्या (स्त्री), संख्यातम् (न.), संख्यानम् (न.)। संख्याभेदौ-(१) गणना, (२) अङ्कश्चैतौ संख्याया द्वौ भेदौ स्याताम्। गणनापर्यायाः-अङ्कगणितम् (न.) गणनम् (न.), गणना (स्त्री), गणितम् (न.), परिग
(७० पृष्ठ से)
ज, ९ झा। १८, २ ठ, ३ ड, ४ ढ, ५ ण, ६ त, ७ थ, ८ द, ९ ध।। १ प, २ फ, ३ ब, ४ भ, ५ मा १ य, २ र, ३ ल, ४ व, ५श, ६ ष, ७ स, ८ ह।। इत्यक्षरसंख्याविन्यासः। इहास्मिन् शास्त्रे वर्गभवैः कादिवर्गोत्पन्नः पिण्डानां यौगिकशब्दानां यानि अन्त्यानि अक्षराणि तैरका: बोध्या:।। नि = नकारः, त्रि= अकार:, अचि अकारादिस्वरे च शून्यं ज्ञेयम्। यत्र केवले स्वरे वर्णयोगरहिते स्वरे तत्रैव तथा (शून्य) कथितमुक्तमित्यर्थः।
उदाहरणं प्रदर्शयति
'देवा ४९, धवो ४९, धीग ३९, वश ५४, स्तमौ ५६, रमा ५२, धूलि: ३९ क्रमादुष्णकरादिबिन्दवः। सालोलसंख्या ३३७ समुदायबिन्दवः इति जातकपारिजाते १०/२ यथा-दकारोऽष्टौ, वकारश्चत्वारः अत्रापि अङ्कानां वामतो गतिः' इति: परिभाषया जाता अष्टचत्वारिंशन्मिता रविबिन्दवः, एवमन्येऽपि ज्ञेयाः।
महासिद्धान्ते तु संख्याद्योतनाथ सङ्केतमाह--- 'रूपात् क, ट, प, य, पूर्वा, वर्णा वर्णक्रमाद् भवन्त्यङ्काः। अनौ शून्यं प्रथमार्थे, आ छेदे, ऐ तृतीया।।१।। इति।। अस्यार्थ:
'क, ट, प, य पूर्वा वर्णा वर्णक्रमादक्षरक्रमादेकत अङ्का भवन्ति। क, का कि ... क् इत्यादिभिरेकः। ख खा, खि ......... ख् इत्यादिभिर्ती इत्यादि। अत्र व्यञ्जनेषु स्वराणां योगेन संख्यायां न भेदो भवतीति ज्ञेयम्। यथा-क = का = कि = ........, = १४ अत्रैतदुक्तं भवति।
अत्र प्रथमो वर्ग:-क ख ग घ ङ च छ ज झ ञ। द्वितीयो वर्ग:-ट ठ ड ढ ण त थ द ध न। तृतीयो वर्ग:-प फ ब भ मा चतुर्थों वर्ग:-य र ल व श ष स ह।
एवमत्र वर्णक्रमतोऽङ्काः वर्गाक्षरैः क्रमेण च शतस्थानीय-दशस्थानीयैकस्थानीयेत्यादिदक्षिणक्रमेण संख्या भवन्ति। 'अङ्कानां वामतो गति:' इहैषा परिभाषा नादरणीया। ञ् नौ वर्णी शून्यद्योतको स्तः। पदविग्रहे तु आ प्रथमाबहुवचनविभक्त्यर्थे। ऐ च तृतीयाबहुवचनविभक्त्यर्थ बोध्या न 'आः' 'ऐः' इति।
(१) गिनती। ६ ज्यो.वि.शब्दकोष
For Private and Personal Use Only