________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मानसर्गः अङ्गुलमानभेदाः-(१) रज: (स्), (२) परमाणुः, (३) त्रसरेणुः, (४) ध्वंसी (वंशी), (५) बालाग्रम्, (६) लिक्षा, (७) यूका, (८) यवः, (९) अङ्गुलम्, (१०) वितस्तिः, (११) हस्तः, (१२) चापः, (दण्डः), (१३) क्रोश:, (१४) योजनम्।
रजःपर्याया:-धुलिः, धूली, पांशुः, पांसुः, रज: (स्), रेणुः। ध्वंसीप -त्रसरेणुः, ध्वंसी, वंशी। वालाग्रप०-कचाग्रम् बालाग्रम्, त्रसरेण्वष्टकम्। लिक्षाप०-यूकाण्ड:, रिक्षा, लिछा, लिक्षा, लिक्षिका। यूकाप०-केशकीट:, यूका, षट्पदी।
(१) उक्तञ्च'जालान्तरगते भानौ यत्सूक्ष्मं दृव्यते रजः।
प्रथमं तत्प्रमाणानां त्रसरेणुं प्रचक्षते।' इति। वैद्यकपरिभाषया त्रिंशतपरमाणुपरिमाणं ध्वंसी। 'जालान्तरगते सूर्यकरे ध्वं (वं) सी (शी) विलोक्यों सरेणुस्तु विज्ञेयस्त्रिंशता परमाणुभिः॥' इति श०चि०२/१२२०
मनुस्मृतौ तु–'त्रसरेणवोऽष्टौ विज्ञेया लिक्षका परिमाणत:।' इति मनुः। इति श०चिं०१/ १५६।
अपि च–'जालान्तरगते भानौ यच्चाणुर्दश्यते रजः। तैश्चतुर्भिर्भवेल्लिक्षा लिक्षाषड्भिश्च सर्षपः।। इति श०चिं०१/१५६।
अस्य न्यास: यथा६ षड्भिः परमाणुभिः = १ त्रसरेणुः। ८ त्रसरेणुभिः = १ कचाग्रम्। ८ कचाः = १ लिक्षा। ८ लिक्षाभिः = १ यूका। ८ यूकाभिः = १ यवः। ८ यवोदरैः = १ अङ्गुलम्।
१२ अंगुलैः = १ वितस्ति: (शंकु:)। २ वितस्तिभ्यां वा २४ अंगुलैः = १ हस्त: (किष्कु:)
२ हस्ताभ्यां = १ गज: (हस्तद्वयं)। ४ हस्तैः = १ चापः (दण्ड:)। १०हस्तैः = १वंशः। ४००० चतुःसहस्रर्हस्तैः = १ नल्वः। २०००द्विसहस्रमितैर्धनुभिः = १ क्रोशः। २ द्वाभ्यां क्रोशाभ्यां = १ गव्यूतिः। ४ चतु:क्रोश्या = १ योजनम्।
मतान्तरे तु१ रजः = १ परमाणुः। ३० परमाणुः = १ त्रसरेणुः। ८ त्रसरेणवः = १ लिक्षा।
पुनर्मतान्तरे१ परमाणुः = १ रजः। ४ परमाणवः = १ लिक्षा। ५ लिक्षाः = १ सर्षपः।
For Private and Personal Use Only