________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६४
ज्योतिर्विज्ञानशब्दकोषः वराटकादीनां नामानि-(१) वराटकः, (२) काकिणी, (३) पणः, (४) द्रम्मः, (५) निष्कः, चेत्येतानि वराटकादीनां नामानि स्युः।
वराटकपर्यायाः-कपर्दः, कपर्दकः, पणास्थिकः, वराटः, वराटकः, श्वेतकपर्दकः, हिरण्यः। 'कौडी' इति भाषा।
काकिणीप०-काकणि:, काकणी, काकनिः, काकनी, काकिणि:, काकिणी, काकिनिः, काकिनी, एकवराटी, ‘एक कौडी' इति भाषा। पणतुर्याश:, पणपादः, पञ्चगण्डकः, वराटकानां दशकद्वयम्, उदमानचतुर्थभागः, उदमानतुर्यांशः।
तदुक्तम्
'पणगण्डकयोस्तुर्य उदमानस्य काकिणी।' इति रुद्रः। रभसस्तु नान्तेष्वप्याह'पणोदमानगण्डानां तुर्यांशोऽपि च काकिनी।' इति सु०व्या०९/४५२।
पणप०-कार्षापणः, पणः, वराटकानां विंशतिगण्डकः। द्रम्मप०-द्रम्मः, पणानां षोडषकः। निष्कप०-चतुः सौवर्णिकः, दीनारः, व्यावहारिकरूपकम्, षोडशद्रम्मः। तदुक्तम्'चतुः सौवर्णिको निष्को विज्ञेयस्तु प्रमाणतः।' इति श०चिं०२/१४३६।
(१) वराटकादीनां मानान्याह भास्कर:- 'वराटकानां दशकं द्वयं यत्सा काकिणी ताश्च पणश्चतस्रः। ते षोडश द्रम्म इहावगम्यो द्रम्मैस्तथा षोडषभिश्च निष्कः।।' इति लीलावत्याम्।
अपि च ताम्रिक: कार्षिक: पणः। इति याज्ञवल्क्यवचनेन गुङजा: पञ्जाधमाषकः, ते षोडशाक्षः कर्षोऽस्त्री' त्यमरसिंहोक्तेन च अशीतिरक्तिकापरिमितताम्र पणशब्दः सङ्केतितः। स च तावत्संख्यकैर्वराटकैर्लभ्यते इति वराटकेष्वपि तथा व्यवहारः। एतन्मूलकं भविष्यमत्स्यसूक्तयो वचनं यथा
'अशीतिभिर्वराटकैः पण इत्यभिधीयते। तैः षोडशैः पुराणं स्याद्रजतं सप्तभिस्तु तैः।' इति प्रायश्चित्तत्वे।' इति शचि०स्तं०पृ०२०६ (२) अंगुलादीनां मानान्यप्याह भास्कर:'यवोदरैरंगुलमष्टसंख्यैर्हस्तोऽङ्गुलैः षड्गुणितैश्चतुभिः। हस्तैश्चतुर्भिर्भवतीह दण्डः क्रोश: सहस्रद्वितयेन तेषाम्॥ स्याद्योजनं क्रोशचतुष्टयेन तथा कराणां दशकेन वंश:।' इति लीलावत्याम्।
अनेन विधिना द्वात्रिंशत्सहस्रहस्तयोंजनमानं ज्ञेयम्। मानशाखे तु षोडशसहस्रहस्तैर्योजनमुक्तम्। तद्यथा
'द्वादशांगुलिक: शंकुस्तद्वयं तु शयः स्मृतः। तच्चतुष्कं धनुः सहसिकः। तक्चतुष्कं योजनं स्यात् ' इति श०चिं०१/४ न्यास:२०वराटका: = १ काकिणी। ४ काकिण्यः = १ पणः। १६ पणा: = १ द्रम्मः। १६ द्रम्मा: = १ निष्कः।
For Private and Personal Use Only