SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मानसर्गः ६३ मागधीयमाने प्रस्थ मानभेदा:-(१) कर्षः, (२) शुक्तिः, (३) पलम्, (४) प्रसूति: (५) अंजलि:, (६) कुडव:, (७) मानिका, (८) प्रस्थः, (९) आढक:, (१०) द्रोण:, (११) शूर्पः, (१२) द्रोणी, (१३) खारी, (१४) भारः, (१५) तुला, चेति मागधीयमाने प्रस्थमानभेदाः। कर्षपर्यायाः-कर्षः, कोलद्वयम्। शुक्तिप०-अर्द्धपलम्, अष्टमिका, शुक्तिः। प्रसूतिप०-अर्द्धाञ्जलिः, प्रसृतम्, प्रसृति: अञ्जलिप०-अञ्जलिः, अर्द्धशरावकः, अष्टमानम्, कुडवः। मानिकाप०-अष्टपलम्, शरावः। शूर्पप०-कुम्भः, गोणी, चतुःषष्टिशरावकः, भारः, शूर्पः। द्रोणीप०-गोणी, द्रोणी, वाहः। भारप०-पलद्विसहस्रम्, भरः, भारः। तुला प०-तुला, पलशतम्। कालिङ्गीयमाने प्रस्थभेदा:-(१) कुडवः, (२) प्रस्थः, (३) आढकश्चेत्यादयः पूर्ववन्मताः। चतुष्पलैः कुडव: स्यात्। तदुक्तम्-‘चतुष्पलैश्च कुडव: प्रस्थाद्याः पूर्ववन्मताः। इति भावप्रकाशे ५/३८७/२७। उक्त च १. 'स्यात्कर्षाभ्यामर्द्धपलं शुक्तिरष्टमिका तथा। शुक्तिभ्यां च पलं ज्ञेयं मुष्टिरानं चतुर्थिका। प्रकुञ्चः षोडशी बिल्वं पलमेवात्र कीर्त्यते।।। पलाभ्यां प्रसृतिज्ञेया प्रसृतं च निगद्यते। प्रसृतिभ्यामञ्जलिः स्यात्कुडवोऽर्द्धशरावकः। अष्टमानं च संज्ञेय: कुडवाभ्यां च मानिका। शरावोऽष्टपलं तद्वज्ज्ञेयमत्र विचक्षणैः।। शरावाभ्यां भवेत्प्रस्थश्चतुः प्रस्थैस्तथाढकः। भाजनं कांस्य पात्रं चतुःषष्टिपलश्च..। सः॥ चतुर्भिराढोण: कलशो नल्वणोऽर्मणः। उन्मानं च घटो राशिदोणपर्यायसंज्ञितः।। द्रोणाभ्यां शूर्पकुम्भौ च चतुः षष्टिशरावकः। शूर्पाभ्यां च भवेद् द्रोणी वाहो गोणी च सा स्मृता। द्रोणीचतुष्टयं खारी कथिता सूक्ष्मबुद्धिभिः। चतुःसहस्रपलिका षण्णावत्यधिका च सा॥ पलानां द्विसहस्रं च भार एक: प्रकीर्तितः। तुलापलशतं ज्ञेयं सर्वत्रैवैष निश्चयः।। माषटङ्काक्षविल्वानि कुडव: प्रस्थमाढकम्। राशिर्गोणी खारिकेति यथोत्तरचतुर्गुणम् इति भा. प्र. ५/३८७/१०त: १९ या। २. मतान्तरे तुलामानस्य न्यास:- ३. पुनर्मतान्तरे तुलामानस्य न्यास:४ मुष्टयः = १ कुडवः। ८ मुष्टयः =१ किञ्चित्। ४ कुडवा: = १ प्रस्थः।। ८. किञ्चित् = १ पुष्कलम्। ४.प्रस्था: = १ आढकः। ४ पुष्कलानि = १ आढकः। ८ आढका: = १ द्रोणः। ४ आढका: = १ द्रोणः। २ द्रोणौ = १ शूर्पः। १॥ सार्द्धशूर्पः = १ खारी। ४ भाराः = १ वाहः। For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy