________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२
ज्योतिर्विज्ञानशब्दकोषः (५) द्रोणः, (६) शूर्पः, (७) खारी, (८) प्रवर्तिका, (९) वाहः। मुष्टिपर्यायाः- १ मुष्टिः (पु० स्त्री०) मुष्टी, मुचुटि:, मुचुटी, मुस्तुः, संग्राहः।
तदुक्तम्सम्पिण्डिताङ्गुलिः पाणिर्मुष्टिर्मुचुट्यपि।' इत्यभि०चि०३/१३७/५९७।
मुष्टिवाचकशब्दाः-आम्रम्, चतुर्थिका, निकुञ्चकम्, पलम्, प्रकुञ्चकम्, बिल्वम्, मुष्टिः, षोडशी, सृपाटः।
उदमानप०-उदमान:, आढकस्य पञ्चाशत्तमो भागः।
तदुक्तम्-'कुल्या स्यादष्टभिद्रोणैद्रोणपादेन चाढकः। अतोऽर्द्धशतिको भाग उदमान उदाहत:।।' इति श०चि०२/३५७।
कुडवपर्यायाः-अर्द्धशरावकः, अष्टमानम्, कुटपः, कुडपः, कुडव:, पाद:, प्रस्थतुर्यांशः। 'माणा' इति। 'पौवा' इति च भाषा।
प्रस्थप०-कुडवचतुष्टयम्, प्रस्थः, शेटकः, शेरः, सेरः, 'पाथा' इति। 'सेर' इति च
भाषा।
आढकप०-आढक:, कांस्यपात्रं, चतुःषष्टिपल:, द्रोणचतुर्थांश:, प्रस्थचतुष्टयम्, भाजनम्।
द्रोणप०-अर्मणः, आढकचतुष्टयम्, उन्मानम्, कलश:, खारीतुर्यभागः, घटः, द्रोण:, नल्वणः, राशिः।
खारीप०-खारः, खारि:, खारिका, खारी, द्रोणचतुष्टयम्, प्रवर्तिकपञ्चमांश:, वाहविंशत्यंशः, षण्ण्वत्यधिका चतुःसहस्रपालिका।
प्रवर्त्तप०-खारिपञ्चकम्, प्रवर्त्तः, प्रवर्तिका। वाहप०-खारिविशम्, वाहः।
१. मागधीयमाने तुला (प्रस्थ) मानस्य न्यास:२ कर्षों = १ शुक्तिः। २ शुक्ती = १ पलम् । २ पले = १ प्रसृतिः। २ प्रसृती = १ अञ्जलिः। २ अञ्जली = १ मानिका (कुडव:)। २ मानिके = १ प्रस्थः। ४ प्रस्थाः = १ आढकः। ४ आढका: = १ द्रोण:। २ द्रोणौ = १ शूर्पः। २ शूरॊ = १ द्रोणी। ४ द्रोण्यः = १ खारी। २०००पलानां द्विसहस्रं = १ भारः। १०० पलानां शतं = १ तुला।
अथवा४ माषा = १ टङ्कः। ४ टङ्काः = १ अक्षः। ४ अक्षा: = १ विल्वम् ४ बिल्वानि = १ कुडवः।। ४ कुडवा: = १ प्रस्थाः ४ प्रस्था: १ आढकः। ४ आढका: = १ राशिः।
४ राशयः = १ गोण्यः। ४ गोण्यः = १ खारि।
For Private and Personal Use Only