SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मानसर्गः त्रसरेणुपर्यायाः-त्रसरेणुः, वंशी। मरीचिप०-किरणः, भानुः, मरीचि:, शेषस्तु रवौ। राजिकाप०-असुरी, कृष्णिका, क्षवः, क्षताभिजननः, राजसर्षपः, राजिका। तदुक्तम्-'क्षवः क्षुताभिजननो राजिका राजसर्षपः। असुरी कृष्णिका चासौ' इत्यभि०चि०३/ १०१/४१८/१९। सर्वपप०-श्वेतसर्षपः, सर्षपः, सिद्धार्थः। तदुक्तम्-'अथ सिद्धार्थः श्वेतसर्षपः 'इत्यभि०चि०४/१२०११८०। यव५०-तीक्ष्णशूकः, यवः, हयप्रियः। तदुक्तम्-'यवो हयप्रियस्तीक्ष्णशूकः' इत्यभि०चि०४/२६८/११७०। शाणपर्यायाः-टङ्कः, धरणः, निष्कः, शाणः, शाणकः। तदुक्तम्-'तै (मापैः) श्चतुर्धिस्तु शाणकः। टङ्कोऽस्त्री धरणम्' इति कल्पद्रौ १९०/ ५१५-१६। कोलप०-कोल:, क्षुद्रकः, द्रक्षण:, वटकः। तदुक्तम्-'शाणद्वयं कोलस्तु द्रंक्षणः। क्षुद्रको वटकः' इति कल्पद्रौ १९०/५१६। कालिङ्गीयमाने तुलामानभेदाः-(१) गौर (श्वेत) सर्षपः, (२) यव:, (३) गुञ्जा, (४) वल्ल: (५) माषः, (६) शाणः, (७) गद्याणकः, (८) कर्षः, (९) पलम्, (१०) कुडवः। शास्त्रीयमाने प्रस्थमानभेदा:'-(१) मुष्टिः, (२) कुडवः, (३) प्रस्थः, (४) आढकः, (१) प्रस्थमानमाहामर:-'अस्त्रियामाढकट्रोणौ खारी वाहो निकुञ्चकः। कुडव: प्रस्थ इत्याद्या: परिमाणार्थकाः पृथक्। (इत्यमरामरविवेकटीकायाम्।९। २३२४८८-९ कुडव इत्येकं पावशेर इति ख्यातस्य।' कुटपः इति मुकुट: कुडवो वा। कुडवप्रमाणन्तु मृद्वेणुकाष्ठलोहादेः पात्रं यच्चतुरङ्गुलम्। विरतीर्ण च तथोच्चं च तन्मानं कुडवं वदेत्। प्रस्थः' इत्येकं शेर इति ख्यातस्य' 'आद्यशब्दाच्छूपभारादिग्रहः।। यदाहुः-पलं प्रकुश्चकं मुष्टिः, कुडवस्तच्चतुष्टम्।। चत्वार: कुडव: प्रस्थश्चतुः प्रस्थं ततथाढकम्।। अष्टाढको भवेद्रोणो द्विद्रोणः शूर्प उच्यतें सार्द्धशूपों भवेत्खारी द्विशूपौ द्रोण्युदाहता।। तमेव भारं जानीयाद्वाहो भारचतुष्टायमिति।' अन्यच्च। अष्टामुष्टिर्भवेत्किञ्चिदष्टौ तु पुष्कलम्। पुष्कलानीति चत्वारि आढक: परिकीर्तितः। चतुराढको भवेद् द्रोण इत्येतन्मानलक्षणम्' इत्युक्तम्॥' इत्यमरस्यामरविवेकटीकायाम् ९/ २३३/८९। न्यास:४ मुष्टयः = १ कुडव: (कुडप:)। ४ कुडवा: = १ प्रस्थः। ४ प्रस्था: = १ आढकः। ४ आढका: = १ द्रोणः। ४ द्रोणा: = १ खारी। ५ खार्यः = १ प्रवर्तः। (प्रवर्तिका)। २०खार्य: = १ वाह: (भविका)। For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy