________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६६
ज्योतिर्विज्ञानशब्दकोषः यवप०-अश्वप्रियः, तीक्ष्णशूकः, यवः। इह षड्भिौरसर्षपैः परिमितं यवपरिमाणमुक्त मनुना–'सर्षपाः षड्यवो मध्यः' मध्यो न स्थूलो नापि सूक्ष्मो यवो भवतीत्यर्थः।।
अपि च'जालान्तरगते भानौ यच्चाणुर्दृश्यते रजः।
तैश्चतुर्भिर्भवेल्लिक्षा लिक्षाषभिश्च सर्षपः। षट्सर्षपैर्यवस्त्वेको गुञ्जका तु यवैत्रिभिः।' इति श०चिं०१/१५।
अङ्गलप०-अंगुलम्, शंकुद्वादशभागः, हस्तचतुर्विंशत्यंशः, अष्टसंख्ययवोदरमानम्।
तदुक्तम्-अष्टभिस्तैर्भवेज्ज्यैष्ठं मध्यमं सप्तभिर्यवैः, कन्यस षड्भिरुद्दिष्टमङ्गुलं मुनिसत्तम। इति। मानं तु पावेन-'षड्यवाः पार्श्वसम्मिता:।' इति कात्यायनदर्शनात्। इति श०चि०१/ २५/
वितस्तिप०-कनिष्ठया सह विततोऽङ्गुष्ठः, द्वादशांगुलपरिमाणम्, वितस्ति:, हस्तार्द्धम्, शंकुतुल्यम्, 'वालिस्त' इति भाषा।
हस्तप०-कर:, किष्कुः, पञ्चशाखः, पाणिः, शयः, हस्तः। 'हाथ' इति भाषा। ___ तदुक्तम्-'यवानां तण्डुलैरेकमंगुलं चाष्टभिर्भवेत्।। अदीर्घयोजितैर्हस्तश्चतुर्विंशद्भिरंगुलैः। इति कालिकापुराणैः, इति श०चि०२/१००२।
गजप०-गजः, हस्तद्वयम्, षट्त्रिंशदंगुलपरिमितम्। चापप०-चापः, धनुः, मतान्तरे तु 'दण्ड:'। तदुक्तम्-'चतुर्विंशांगुलो हस्तस्तच्चतुष्कं धनुः स्मृतम्।' इति श०चिं०१/१२८९ वंशप०-वंशः, हस्तदशकम्, 'वाँस' इति भाषा। उक्तं च–'तथा कराणां दशकेन वंशः।' इति लीलावत्याम्। नल्वप०-किष्कुचतुःशतम्, नल्व:, हस्तचतु:शतम्।
उक्तं च-नल्व: किष्कुचतुःशतम्। इत्यमरः १८/११६ अम०सु०व्या० कात्यस्तु' 'नल्व' हस्तशतम् ' इत्याह। भट्टक्षीरस्वामी तु 'नल्वं विंशहस्तशतम् ' इति दर्शितवान्। मुकुटस्तु'नल्वो विशं हस्तशतम् ' इति च दर्शितवान् इत्यमर सु०व्या०टिप्पण्याम् १८/११६
क्रोशप०-क्रोश:, क्रोशम्, क्रोशी, दण्डसहस्रद्वितयम्, सहस्रधनुः, 'कोस' इति भाषा।
उक्तं च-धन्वन्तरं सहस्रं तु क्रोशः' इति वाचस्पति: इत्यमरसु०व्या०२/१/११५/ १८।
'स्यादङ्गुलं तैदशभिर्वितस्तिस्तद्युगेन च। हस्तो हस्तैश्चतुर्भिः स्याद्धनुर्दण्डश्च तैः पुनः। द्विसहस्रमितैः क्रोशः क्रोशाभ्यां गोरुत पुनः। गव्यूतं च स्त्रियां गव्या द्वयोर्गव्यूतिरित्यपि।' इति कल्पद्रौ २०/१०३।
गव्यूतिःप०-क्रोशद्वयम्, क्रोशयुगम्, गव्या, गव्यूतम्, गव्यूतिः, गोमतम्, गोरुतम्, द्विसहस्रधनुः। 'दो कोस' इति भाषा।
For Private and Personal Use Only