________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मानसर्गः सुवर्णम, (६) कुरुविस्तः, (७) तुला, (८) भारः, (९) आचितः, (१०) शाकटभारः, (११) राजतकर्षः, (१२) ताम्रकर्षश्चैत्येते तुलामानभेदाः स्युः।
गुञ्जापर्यायाः-काकचिञ्चा, काकचिञ्चिः, काकचिञ्ची, कृष्णला, गुञ्जा, रक्तिका ‘घुपुंची' इति भाषा।
माषप०-माषः, माषक:, हेम, धान्यकः, “मासा' इति भाषा'। तदुक्तम्'दशार्द्धगुञ्ज प्रवदन्ति माषं मासाह्वयैः षोडशभिश्च कर्षम्।' इति लीलावती।
'गुञ्जाभिर्दशभिर्माष: शाणो माषचतुष्टयम्।' इति वैद्यकपरिभाषा। श०चि० पृ ६०१ स्तं०१। ‘षड्भिस्तु रक्तिकाभिः स्यान्माषको हेमधान्यका। माषो गुञ्जाभिरष्टाभि: सप्तभिर्वा भवेत्क्वचित्।' इति भावप्रकाशे च ५/६/३०६
कर्षप०-अक्ष:, उदुम्बरम्, करमध्यः, कर्षः, कवलग्रह:, किञ्चित्पाणि: तिन्दुकम् पाणितलम्, पाणिमानिका, पिचुः, विडालपदकम्, षोडशिका, सुवर्णम्, हंसपदम्।' इति।
तदुक्तम्___ 'ते षोडशाऽक्षः कर्षोऽस्त्री' इत्यमरसु०व्या०९/८६/३३० भिषजां व्यवहारे ‘कर्षः स्यात्तोलकद्वयम्॥' इति श०चि०२/५१८ अशीतिररक्तिकाः। 'राजनिघुटुमते-'कर्षः स्याद्दशमाषक:।' इति श०चि०१/५१९
'कोलद्वयं तु कर्षः स्यात्स प्रोक्तः पाणिमानिका। अक्ष: पिचुः पाणितलं किञ्चित्पाणिश्च तिन्दुकम्। बिडालपदकं चैव तथा षोडशिका मता। करमध्यो हरपदं सुवर्णं कवलग्रह: उदुम्बरं च पर्यायैः कर्षमेव निगद्यते। इति भावप्रकाश: ५/८,९,३८६।
पलपर्यायाः-आम्रम्, कर्षचतुष्टयम्, चतुर्थिका, निकुञ्चकः, पलम्, प्रकुञ्चः, बिल्बम्, मुष्टिः, मुष्टी, षोडशी, सृपाटः।
तदुक्तम्'शुक्तिभ्यां च पलं ज्ञेयं मुष्टिरानं चतुर्थिका।। प्रकुञ्चः षोडशी बिल्बं पलमेवात्र कीर्त्यते॥ इति भावप्राकशः। ५/११/३८।
'तत्तुशास्त्र तौलकचतुष्टयम्। वैद्यके अष्टतोलकम्। लौकिके साष्टरक्तिद्विमाषकतोलक-त्रितयम्। यथा-पलं तु लौकिकैर्मानैः साष्टरक्तिद्विमाषकम्। तोलकत्रितयं ज्ञेयं ज्योतिषज्ञैः स्मृतिसम्मतम्
•न्यासः
५ गुञ्जस =१ माषः। १६ माषा: = १ कर्षः। ४ कर्षाः १ पलम्। सुवर्णस्य कषे
१६ माषा: = १ सुवर्णः। ४ सुवर्णाः = १ कुरुविस्तः। १०० पलानि = १ तुला। २०तुला: = १ भारः। .१०भारा: = १ आचितः। १ आचित:-१ शाकटभारः। १६ माषा: = १ राजतकर्षः।,,,, = १ ताम्रकर्ष।
For Private and Personal Use Only