________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२
ज्योतिर्विज्ञानशब्दकोषः . पीतचकोरमरीचिचयः, (१२) धूर्जटिजटामण्डलचूडामणिः।
रात्रिपर्याया:-क्षणदा, क्षपा, ता, त्रियामा, दोषा, निशा, निशीथिनी, यामवती, यामिनी, रजनी, रात्रिः, विभावरी, शर्वरी। शेषपर्यायास्तु कालवर्गे द्रष्टव्याः।
दर्शरात्रिप०–तमसी, तमिस्रा, दर्शरात्रिः। पूर्णिमारात्रिप०-ज्योतिष्मती, ज्योत्स्नी, पूर्णिमारात्रिः।
चन्द्रप्रभाप०-कौमुदी, चन्द्रगोलिका, चन्द्रप्रभा, चन्द्रातपः, चन्द्रिका, चन्द्रिमा, चान्द्री, चार्वी, ज्योत्स्ना।
नक्षत्रप०-उडु, ऋक्षम्, तारका, तारा, धिष्ण्यम्, नक्षत्रम्, भम्। शेषास्तु पञ्चाङ्गवगें।
चिह्नप०-अङ्कः, अभिज्ञानम्, कलङ्कः, चिह्नम्, लक्षणम्, लक्ष्म (अन्), लच्छनम्, लाञ्च्छनम् लिङ्गम्।
मृगप०-अजिनयोनि:, एणः, कुरङ्गः, मृगः, वातायुः, शश:, सारङ्गः, हरिणः, शेषास्त्वन्यत्र।
हिमपर्यायाः-अवश्यायः, आकाशबाष्पः इन्द्राग्निधूमः, सबाष्पऽ, तुषारः, तुहिनम्, नीहारः, प्रालेयम्, महिका, मिहिका, रजनीजलम्, हिमम्।
हिमसंहतिप०-हिमसंहतिः, हिमानी।
शीतप०-जडः, तुषारः, शिशिरः, शीत:, शीतलः, सुशीम:, सुषिमः, सुषीमः, हिमः।
शुक्लवर्णप०-अच्छ:, अमल:, अर्जुनः, अवदातः, अवलक्षः, उज्ज्वलः, गौरः, धवल:, पाण्डर:, पाण्डुः, पाण्डुरः, पुण्ट्र (ण्ड्र) कः, वदातः, वलक्षः, विशदः, शुक्र:, शुक्लः, शुचिः, शुभ्रः, शुभ्रम् (अ०), श्येतः, श्वेतः, सित:, हरिणः।
कमलकुमुदादीनां सामान्यप०-उत्पलम्, कुवम्, कुवलम्, कुवलयम्, कुवेलम्। 'कुवलयं' चन्द्रविकासि, पद्मम्, सूर्यविकासि इत्यनयो दो ज्ञेयः।
सितोत्पलप०-कुमुत् (द्), कुमुद्वती, कैरवम्, गर्दभाह्वयम्। कुमुदलताप०-कुमुदिनी, कुमुद्वती, कैरविणी। अमृतप०-अमृतम्, पीयूषम्, पेयूषम्, सुधा, शेषस्तु देववगें।
चकोरप०-अङ्गारभक्षः, उत्पिबः, कौमुदीजीबन:, कौमुदीजीवी (इन्), चकोर:, चकोरकः, चन्द्रिकापायी (इन्), चन्द्रिकाप्रियः, चन्द्रिकाशन:, चलच्चञ्चुः, जीवजीवः, जीवजीवकः, जीवजीव:, ज्योत्स्नाप्रियः, रक्ताक्षः, विषदर्शनमृत्युकः, विषमृत्युः, विषमृत्युसूचकः।
चन्द्रपितृपः-अब्धिः, समुद्रः, सागरः, सिन्धुः, शेषास्त्वन्यत्र (देववर्गे)।
चन्द्रपितृप०-अत्रिः (सप्तर्षिविशेषः), अत्री (इन्), अनसूयापतिः, कदमकन्यापतिः, अत्रिदृग, अत्रिनेत्रः, अत्रिलोचनः।।
चन्द्रभगिनीप०-इन्दिरा, रमा, लक्ष्मी:, शेषस्तु देवे। चन्द्रपुत्रप०-चान्द्रिः, ज्ञः, बुधः, विद्, वैधवः, सौम्यः, शेषस्तु बुधपर्याये। चन्द्रपुरीप०-चन्द्रपुरी, विभा, सोमपुरी, एषोदिच्यां वर्तते। चन्द्रकलाप०-(१) अमृता, (२) मानदा, (३) विश्वा, (४) तुष्टिः, (५) पुष्टिः, (६)
For Private and Personal Use Only