________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२२
ज्योतिर्विज्ञानशब्दकोष:
(११) तत्र अजैकादशी । (३०) तत्र अमावास्यायाम् - पिठोरी व्रतम्, अस्याः पर्यायः - कुशग्रहणी |
भाद्रपदसितपक्षीयपर्वनामानि -
(१) तत्र प्रतिपदि — नक्तव्रतशान्तिः ।
(३) तत्र तृतीयायाम् — मन्वादिः, हरितालिका तद्व्रतञ्च । (४) तत्र चतुर्थ्याम् — स्यमन्तकः, सिद्धिविनायकव्रतम्। (५) तत्र ऋषिपञ्चमी, नागपञ्चमी, नागदष्टपञ्चमी । (६) तत्र षष्ठ्याम् — ललिताव्रतम्, महाचम्पाव्रतम् ।
Acharya Shri Kailassagarsuri Gyanmandir
(७) तत्र सप्तम्याम् — मुक्ताभरणव्रतम्, महालक्ष्मीसप्तमी ।
(८) तत्र अष्टम्याम् — महालक्ष्मीव्रतम्, दूर्वाष्टमीव्रतम्, ज्येष्ठाव्रतम्। (९) तत्र नवम्याम् — दुःखनवमीव्रतम् । (११) तत्र पद्मकादशी ।
(१२) तत्र द्वादश्याम् — दुग्धव्रतम्, कल्किद्वादशी, जयाद्वादशी, विष्णुशृङ्खलः, अस्यां श्रवणभे— श्रवणद्वादशी, वामनजयन्ती, वामनजयन्तीव्रतम्, अस्याः पर्यायाः - इन्द्रध्वजः, इन्द्रमहोत्सव:, इन्द्रस्योत्सव:, ध्वजोत्थानम्, शक्रध्वज:, शक्रध्वजोत्सव:, शक्रोत्सव:, शक्रोत्थानम् । (१३) तत्र त्रयोदश्याम् — कङ्कोलदन्तधावनम् ।
(१४) तत्र अनन्तचतुर्दशी, उमामहेश्वरव्रतम्, नष्टदोरकम् ।
(१५) तत्र पूर्णिमायां श्राद्धारम्भः अस्याः पर्यायौ प्राष्ठपदी, गाङ्गी ।
3
आश्विनासितपक्षीयपर्वनामानि -
(४) तत्र चतुर्थ्यां दशरथललिताव्रतम् । (६) तत्र षष्ठ्याम् - कपिलाषष्ठी । (११) तत्र इन्दिरैकादशी ।
(१३) तत्र त्रयोदश्याम् — कलियुगादिः ।
(३०) तत्र पित्रममावास्या, अस्यां गजच्छायापर्व (अन्)।
आश्विन्सितपक्षीयपर्वनामानि -
(१) तत्र प्रतिपदि - नवरात्रारम्भः, नवरात्रव्रतम्, मातामहश्राद्धम्। (५) तत्र उपाङ्गललितापञ्चमी ।
(७) तत्र सप्तम्यां सरस्वतीपूजनम्, विल्वशाखापूजनम्, कालरात्रिसप्तमी । (८) तत्र अष्टम्याम् - महारात्रि:, महाष्टमी, अशोकाष्टमी।
(९) तत्र नवम्याम् — मन्वादिः, भद्रकालीव्रतम् ।
(१०) तत्र दशम्याम् - बौद्धजयन्ती, विजयादशमी ।
(११) तत्र पाशाङ्कुशैकादशी ।
(१२) तत्र पद्मनाभद्वादशी ।
(१३) तत्र त्रयोदश्याम् - कङ्कलीदन्तधावनम्, गुर्जरे तु गोत्रिरात्रव्रतम् । (१५) तत्र पूर्णिमायाम्-नवान्नभक्षणम्, जागरीव्रतम्, अस्याः पर्यायाः आश्विनी, अराबिला,
शारदी, सरस्वती, द्यूतपूर्णिमा, कोजागरः, शरत्पर्व (अन्), कौमुदीचारम् ।
कार्तिकासितपक्षीयपर्वनामानि – ( ४ ) तत्र कर्कचतुर्थी, एषा तु दक्षिणदेशे आश्विने ।
For Private and Personal Use Only