________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्वसर्गः वैशाखशुक्लपक्षीय पर्वनामानि
(३) तत्र तृतीयायाम्-कल्पादिः, अक्षय्यतृतीया, परशुरामजयन्ती। (७) तत्र सप्तम्याम् - गङ्गासप्तमी। (११) तत्र मोहिन्येकादशी। (१२) तत्र जामदग्न्यद्वादशी। (१३) तत्र त्रयोदश्याम्, गुर्जरदेशे कालीव्रतम्, अपामार्गदन्तधावनम्। (१४) तत्र चतुर्दश्याम्-नृसिंहजयन्ती। (१५) तत्र पूर्णिमायाम्-कूर्मजयन्ती, जलकुम्भदानम्। तस्याः पर्यायौ-विश्वविस्ता, वैशाखी।
ज्येष्ठासितपक्षीयपर्वनामानि(११) तत्र अपरैकादशी। (३०) तत्र भावुकाऽमावास्या। ज्येष्ठसितपक्षीयपर्वनामानि
(३) तत्र तृतीयायाम्-रमाव्रतम्। (१०) तत्र दशम्याम्-गङ्गोत्पत्तिः, दशहरा। (११) तत्र निर्जलैकादशी। (१२) तत्र रामद्वादशी। (१३) तत्र त्रयोदश्यां निर्गुण्डीदन्तधावनम्। (१५) तत्र पूर्णिमायाम्--मन्वादिः, तस्याः पर्याया:-उपनिवेशिनी, ज्येष्ठी, ज्यैष्ठी, वटसावित्री।
आषाढासितपक्षीयपर्वनाम(११) तत्र योगिन्येकादशी। आषाढसितपक्षीयपर्वनामानि
(१०) तत्र दशम्याम्-मन्वादिः, आशादशमीव्रतम्। (११) तव एकादश्यां चातुर्मास्यारम्भः, गोपद्मव्रतम्, कोकिलाव्रतम्, हरिशयन्येकादशी। (१२) तत्र कृष्णद्वादशी। (१३) तत्र त्रयोदश्यां नारङ्गदन्तधावनम्। (१५) तत्र गुरुपूजा, तस्याः पर्याया:-आषाढी, कृत्रिमाचारी, गुरुपूर्णिमा।
श्रावणासितपक्षीयपर्वनामानि
(२) तत्र द्वितीयायाम् अशून्यव्रतम्। (४) तत्र चतुर्थ्याम् सङ्कष्ट चतुर्थीव्रतम्। (७) तत्र सप्तम्याम्-शीतलाव्रतम्। (११) तत्र कामिकैकादशी।
श्रावणसितपक्षीयपर्वनामानि
(१)तत्र प्रतिपदि-नक्तव्रतारम्भः, रोटकव्रतम्, सुकृतव्रतम्, स्वर्णगौरीव्रतम्। (३) तत्र मधुश्रवातृतीया। (४) तत्र चतुर्थ्याम्-कपर्दिविनायकव्रतम्, दूर्वागणपतिव्रतम् इदं कार्तिके वा। (५) तत्र नागपञ्चमी। (६) तत्र वर्णषष्ठी। (७) तत्र सप्तम्याम्-शीतलापूजनम्। (८) तत्र दुर्गाष्टमी। (१०) तत्र दशम्याम्-कल्किजयन्ती। (११) तत्र पुत्रदैकादशी। (१२) तत्र द्वादश्याम्पवित्रार्पणम्, दधिव्रतम्, बुद्धद्वादशी। (१३) तत्र त्रयोदश्याम्-कारञ्जदन्तधावनम्। (१५) तत्र पूर्णिमायाम्-रक्षाबन्धनम्, अस्याः पर्यायाः श्रावणी, द्विवेदिनी, ऋषितर्पणी।
भाद्रपदासितपक्षीयपर्वनामानि
(३) तत्र तृतीयायाम्-बृहद्गौरीव्रतम्, दशाफलव्रतम्। (६) तत्र चन्द्रषष्ठी, कपिलाषष्ठी। (८) तत्र अष्टम्याम्-मन्वादिः, कृष्णजयन्ती, कृष्णजन्माष्टमी, सा निशीथव्यापिनी ग्राह्या।
For Private and Personal Use Only